This page has not been fully proofread.

FAKTO
 
300
 
मधुराविजये
 
मुद्वमन्तिः । सूर्योऽतीव भ्राजमानस्संतापयति लोकम् । संतापहरणाय
स्वपतिभिस्साकं क्रीडासरस्सु जलक्रीडा अनुभवितुं त्वरते वधूजनः ।
सूर्यतेजोभिस्साकं वर्धन्ते च दिवसानीति स्वभावोक्तिः । एतदृतुस्वभाव
मेवं कीर्तयति महाकविः कालिदासः
" सुभगसलिलावगाहा
पाटलसंसर्गसुरभिवनवाताः । प्रच्छायसुलभनिद्रा दिवसा: परिणामरम
 
बीयाः ॥ ' इति ॥
 
ग्रीष्मे सूर्यगमनं वर्णयति
 
-
 
-
 
नियतिनिमितदक्षिणदिग्वधू
विरहतापनिवारणवाञ्छ्या ।
अहिमभानुरहन्यहनि ध्रुवं
हरितमाप हिमाचलशीतलाम् ॥
 
11
 
"
 
17 11
 
वं
 
नियतीति ॥ नियतिः दैवम् पुरातनं कर्म ।
भागधेयं भाग्यं स्त्री नियतिविधिः' इत्यमरः । तया निर्मितः सृष्ट:
कल्पितः अवश्यं भोक्तव्यमिदमिति निर्णीत: । दक्षिणा दिक् अवा
आशा सैव वधूः भार्या । तथा सह संगतत्वादेवमुक्तिः । 'वधूर्जाया स्नुषा
स्त्री च' इत्यमरः ।
रिति गम्यते । तस्मात् तापः तज्जनितो विरहसंतापः
तया विरहः वियोगः । तस्याः दूरस्थिति
 
गम्यते । तस्य निवारणम् अपनयनम् तस्मिन् वाञ्छा तद्वियको
लाषः । तथा ध्रुवमिति संभावनायाम् । तयेवेति संभाव्यते। अहम
भानु: चण्डकिरण: सूर्यकर्ता ।
अहनि अहनि दिने दिने ।
 

 
दाह
 
नत्वेकदा तापस्य दुर्भरत्वादेवमुक्तिः । वीप्सायां द्विर्वचनम् । अस्मिन्
 
समये सूर्य: प्रतिदिनमुत्तराशां गच्छतीत्येवं
 
संभाव्यते ।
 
हिमाचल:
 
हिमवन्नगः तेन शीतलाम् तत्स्थित्या शैत्यवतीम् । हरितम् दिशम्
उत्तरदिशमित्यर्थः । नायिकामिति गम्यते । ताम् आप प्राप । T