This page has not been fully proofread.

पञ्चमसर्गः
 
"
 
बन्धिता: नतु हताः । युद्धादन्यत्र करिणां वधे प्रत्यवायश्रवणात् । यथाह
चाक्षुषः " लक्ष्मीकामो युद्धादन्यत्र करिवधं न कुर्यात् " इति ।
अतएव कालिदासः "नृपतेः प्रतिषिद्ध मेव तत्कृतवान् पङ्क्तिरथो विलङ्घय
यत् । अपथे पथमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिता: " इति
दशरथम निन्दत् । तादृशः मतङ्गजा गजा: यस्मिन् तथा । मत
ङ्गजो गजो नागः' इत्यमरः । व्यधात् व्यतनोत् अकरोत् । कृतौ
करोत्यावहति विदधात्यादधाति च । वितनोत्यात्मने पञ्च इति
भट्टमल्ल: । विपूर्वात् डुधानो लुङ् । 'गातिस्थेति ' सिचो लुक् ।
क्रूरमृगास्पदानि प्रजोपद्रवकारीणि वनान्यटित्वाटित्वा तदुपद्रवेभ्य
स्स्वप्रजा मृगयाव्याजेन राजा ररक्षेति
 
"
 
परमार्थ: । मृगयाव्यसनमेव राज्ञो
 
निषिध्यते । नतु मृगयेति पूर्वमुक्तम् । मृगयायाः प्रयोजनानि वर्णितानि
राज्ञां क़ालिदासेन परिचयं चललक्ष्यनिपातने भयरुषोश्च तदि
ङ्गितबोधनम् । श्रमजयात्प्रगुणा च करोत्यसौ तनुमतोऽनुमतस्सचिवै
र्ययौ ॥" इति । तथापि प्राणोपद्रवकारिणीयमिति प्रजारक्षणादिप्रयो
जनं विना न तत्र प्रवर्तेत राजेत्यवगन्तव्यम् ॥
 
ऋतून् वर्णयन्ती ग्रीष्मतु प्रथमतोऽवतारयति-
-
 
1 ...
 
-
 
""
 
अथ सुगन्धिहिमान् व्यजनानिलान्
मृगदृशः कृतचन्दनचचिकाः ।
शशिसतीश्च निशाः प्रियतां नय
 
नरपतेरुदभूदृतुरूष्भलः ॥
 
"
 
15
 
297.
 
ऊष्मलः
 
अथेति ॥ अथ अनन्तरम् गते वसन्ते इत्यर्थः ।
ऋतुः ग्रीष्मर्तुः । ऊष्मः घर्मः अस्मिन्नस्तीति सिध्मादित्वाल्ल: ।
वर्ध्वपेनोष्मपर्ण मिति गणरत्नमहोदधिरेनं सिध्मादिषु पपाठ ।
 
"धनुष्मन्तौ वत्सौ दशमुखभुजैरूष्मलतमा " इत्युदाजहार च । 'ऊष्मो
 
11