This page has not been fully proofread.

मधुराविजये
 
तत्कलाभिज्ञा एवमाहुः
 
अङ्गैरालापयेद् गीतं हस्तेनार्थं प्रदर्शयेत् ।
दृष्टिभ्यां भावयेद्भावं पादाभ्यां तालनिर्णयः । यतो हस्तस्ततो दृष्टि
र्यतो दृष्टिस्ततो मनः । यतो मनस्ततो भावो यतो भावस्ततो मनः
इति ॥
 
""
 
206
 
""
 
कलाभिज्ञत्वमस्मिन् प्रस्तूय तृतीयपुरुषार्थानुभूति वर्णयितुकामा
तदङ्गतया भाविनि ऋतुवर्णने प्रथममवतरिष्यतो ग्रीष्मस्य द्वारीकरो
त्याखेटम् -
 
हततरक्षु परिक्षतसैरिभं
मृदितरङ्क निषूदितसूकरम् ।
ग्लपितखङ्गि गृहीतमतङ्गजं
बनमसौ मृगयासु मुहुर्व्यधात् ॥
 
हतेति ॥ असौ राजा । मृगयासु आखेटेषु 'आच्छादनं मृगव्यं
स्यादाखेटो मृगया स्त्रिया ' मित्यमरः । वनम् अरण्यानि । जातावेक
 
वचनम् । मुहुः पुनः पुनः ।
 
शार्दूलाः ' तरक्षुस्तु मृगादन: ' इत्यमरः । ते । यस्मिन् तथोक्तम् ।
हताः आहताः संहृताः तरक्षवः क्षुद्र
तथाभूतं यथा तथा उत्तरत्राप्येवम् । किञ्च । परिक्षता: व्रणिता:

सुष्ठु हिसिताः । क्षणु हिंसायाम् क्तः । अनुनासिकलोपः । सैरिभाः
'लुलायो महिषो वाहद्विषत्कासरसैरिभा''
 
॥ 14 ॥
 
-
 
,
 
इत्यमरः । किञ्च । मृदिताः संचूर्णिताः रङ्कवः मृगभेदाः
 

 
साररुरुन्य ङ्क रङ्क शम्बररौहिषा: इत्यमरः । ते यस्मिन् तथा । किञ्च ।
'निषूदिता' नाशिताः सूकरा: वराहा: यस्मिन् तथा । ग्लपिता: तापिताः ।
( ग्लै हर्षक्षये – ण्यन्तात् क्तः । 'ग्लास्नावनुवमां चे ' ति
विकल्पात्पक्षे ह्रस्वः । ) तथाविधाः खजिनः खड्गमृगाः
 
तथा गण्डके खजखजिनो इत्यमरः । किञ्च । गृहीताः स्वीकृता
। '
 
"
 
कृष्ण
 
मित्त्व
यस्मिन्