This page has not been fully proofread.

आशमयन्नृपते बिरुदावली
मुखरमागधमण्डलवैखरीम् ॥
 
11 10
 
तस्य
 
परिसरेति ॥ परिसर पर्यन्तभूः राज्ञस्समीपप्रदेशः ।
द्वयम् द्वयवयवकसमुदाय: उभौ पार्श्वप्रदेशावित्यर्थ: । तस्मिन् चामर
धारिण्यः चामरग्राहिण्य: किरातस्त्रियः । 'किराती चामरधरा यवनी
शस्त्रधारिणी ' इति शब्दार्णवः । तासाम् कनककङ्कणानि सुवर्णवल
यानि । कङ्कणं करभूषणम् 'कटको वलयोऽस्त्रियाम्' इति
 
.
 
-
 
भेदेन ' कङ्कणवलय ' शब्दौ
 
व्यवहरत्यमरसिंहस्तथापि 'वलयः कण्ठ
 
रोगे ना कङ्कणे पुंनपुंसकम् इति मेदिनीतो न विरुद्धा वलया
 
र्थकता कङ्कणस्य । तेषाम् रिङ्खणम्
 
स्खलनं तत इतस्संचलनम्
 
'रिङ्खणं स्खलनं समे
 
"
 
पञ्चमसर्गः
 
"
 
"
 
-
 
-
 
रिङ्गण ' मिति तु पाठा
न्तरम् । रिगि गतौ भावे ल्युट् । तस्मात् निस्वनः तज्जनितो
ध्वनिः । कर्ता । नृपतेः राज्ञः बिरुदावल्यः काव्यविशेषाः । तल्ल
क्षणं त्वेवम् – " वर्ण्यमानाङ्कबिरुदवर्णन प्रचुरोज्ज्वला । वाक्याडम्बर
संयुक्ता सा मता बिरुदावली " इति । ताभिः मुखम् आननम्
तस्थत्वाद्वागपि मुखम् । तदेषामस्तीति मुखराः वाचकाः ।
मुखकुञ्जेभ्यो र: ' इति र । बिरुदावलीनां पाठक़ा
तथाविधाः मागधाः वंशशंसकाः राज्ञः स्तुतिपाठक विशेषाः । तद्भेदा
सूताः पौराणिका: प्रोक्ता : मागधा वंशशंसकाः ।
 
'रप्रकरणे
इत्यर्थः ।
 
चैवं वर्णिताः
 
"
 
वन्दिनस्त्वमलप्रज्ञाः प्रस्तावसदृशोक्तयः इति । तेषाम् मण्डलम् समूहः ।
अनेन ध्वनेरुच्चैस्त्वं प्रतिपाद्यते । तस्य वैखरीम् वाचम् नादरूपाम् ।
सर्वैमलित्वा युगपद् गीयमानतया महता संरम्भेण समुद्भूतामिति
मौखिकवाय्व भिव्यङ्गयस्सर्वश्रुतिगोचर स्थूलशब्दो वैखरीति
पदार्थलक्षणसंग्रहकाराः । ताम् कर्म ।
 
भावः ।
 
अशमयत् उपशमयाञ्चकार
 
"
 
आच्छादयामासेत्यर्थः । शमेर्ण्यन्ताल्लङ् । शमोऽदर्शन ' इति मित्वा
 

 
201
 
इत्यमरः ।
 
'