This page has not been fully proofread.

पञ्चमसर्गः
 
तात्पर्यार्थः । अन प्रथमास्पदगौरवं लघूचकारेति वाक्यार्थे 'द्रढिम
शालि ' नीत्यादयः पदार्था: विशेषणगत्या हेतुतामगमन्निति काव्य
लिङ्गमलङ्कारः । श्लेषश्वास्य जीवातुरिति श्लेषेण सङ्कीर्यते चायम् ॥
 
राज्ञो वैभवसमृद्धि प्रब्रूते -
 
नरपतेः प्रतिहारमहीं मुहु
विजयदन्तिमदोदकपङ्किलाम् ।
 
क्षितिभुजां भुजभूषणघट्टन
प्रसृमरो मणिरेणुरशोषयत् ॥
 
287
 
॥7॥
 
नरपतेरिति ॥ क्षितिभुजाम् राज्ञाम् कम्पराजसेवार्थमागताना
मित्यर्थ: । ( तेषाम् ) भुजानां भूषणानि अलंकाराः केयूरादयः
तेषाम् घट्टनम् संघर्ष: परस्परसम्मर्दनम् तेन प्रसृमरः सुष्ठु
प्रसरणशीलः सर्वतो व्याप्नुवदिति यावत् ।
'सृधस्यदः क्मरच् '
इति ताच्छीलिक: क्मरच् । तादृक् मणिरेणु: रत्नानां परागः । सः
कर्ता । नरपतेः राज्ञः विजयदन्तिनः जयसिन्धुरा गन्धगजा: उपदा
प्रदानार्थं राजभिरानीताः । तेषाम् मदोदकम् दानजलम् तेन पङ्कि
लाम् पङ्कवतीम् कर्दमयुताम् । 'निषद्वरस्तु ज़म्बालः पङ्कोऽस्त्री
शादकर्दमौ' इत्यमरः । पिच्छादित्वादिलच् । तथाविधाम् प्रतिहार
महीम् द्वारभूमिम् । मुहुः पुनः पुनः । अशोषयत् अतापयत् । शुष्का
मकरोत् । शुष शोषणे – ण्यन्ताल्लङ् । राजानं सेवितुं द्वारभूमिषु
प्रतीक्षमाणा राजानस्तत्र स्थातुमप्य व काशमलभमानास्संख्यातिगा वर्तन्ते ।
उपदादानार्थं तैरानीता सदगजाश्च तत्र गृहाङ्गनेषु बद्धास्स्वमदधारा
स्रावैरभूमीराकुर्वन्ति । तदानीं तद्राज़सेवकानां परस्परसम्मन
गलितास्तदलङ्क तभूषणरत्नपराग राशयश्च तदाभावं शमयन्तीत्यस्य
राज्ञो वैभवसमृद्धिर्वणिता । अतएवायमुदात्तालङ्कारः ॥