This page has not been fully proofread.

286
 
मधुराविजये
 
(
 
दृढ स्थूले नितान्ते च प्रगाढे बलवत्यपि ' इति मेदिनी । तेन
शालते प्रकाशत इति णिनिः । तस्मिन् । भोग़ैः सुखैः सुखजनकैः
स्रक्चन्दनानुलेपनादिभिः अन्यत्र फणाभिः ।
 
"
 
भोगस्तु भोजने वित्ते
 
,
 
"
 
निर्वेदे पालने सुखे । वनितादिभृतौ राज्ये सर्पस्य
फणकाययोः
इति नानार्थरत्नमाला । तैः मनोहरे मनोज्ञे दर्शनीये एकत्र सौष्ठ
वेन अन्यत्र अतिसुकुमारत्वेन । सर्पफणानामतिकोमलत्वात् । कटकम्
वलयम् । तत् धतु शीलमस्येति ताच्छील्ये णिनिः । अन्यत्र अद्रेः
मध्यभाग: कटकः तद्धारिणि । कटकोऽस्त्री नितम्बोद्रेर्दन्तिनां दन्त
मण्डने । सामुद्रलवणे राजधानीवलययोरपि ' इति मेदिनी । दानगुण
दानम् अर्थिभ्योऽभिलषितार्थप्रदानम् । अन्यत्र करिणां मदः ।
गजमदे त्यागे पालनच्छेदशुद्धिषु' इति विश्वः । तेन ऊर्जिते उदारे
महति दानवीरे इत्यर्थः । अन्यत्र बलवति । दन्तिनां मदस्य तेजो
•ऽभिवर्धकत्वादेवमुक्ति: । नृपतेः राज्ञः दो वाहु तथोक्तः । भुज़बाहू
तस्मिन् निवासम् वसतिम् स्वस्
स्थितिम् । उपेत्य प्राप्य । प्रथमास्पदानि प्रथमस्थानानि आदौ
स्वाश्रयतया समधिगतानि आदिकूर्मशेषकुलाचलदिग्गजरूपाणि । तेषाम्
 
'दानं
 
प्रवेष्टो दोस्स्यात्
 
, इत्यमरः ।
 
गौरवम् गुरुता भारः तत् अलघयत् लघूचकार ।
 
अलङ्कारमात्रेण
 
तत्र स्थित्वा स्ववहनभारं सर्वमत्रैव निचिक्षेपेति भावः । स्ववहन
तेषां यद् गौरवं (लोके पूज्यतातिशय ) तदसत्कल्पं चकारेत्यर्थान्तरम् ।
यो महान्तो गुणा वर्तन्ते ते सर्वे
 
ऽप्यत्र कम्पराजभुजे सङ्घीभूय वर्तन्त इत्यस्मिन्नतिशय प्रीतिमती स्वस्य
प्रथमास्पदेषु कूर्मादिषु यद् गौरवं तत् लघु अकरोत् तस्य लाघवं
जनयामासेत्यप्यर्थान्तरम् । नात्यन्तं तत्र प्रीतिमती बभूवेति भावः ।
अतएव तेभ्योऽतिशायी कम्पराजभुज़ इति व्यतिरेको ध्वन्यते । कम्प
राजभुजसमाश्लिष्टा भूसती महदननुभूतपूर्व सुखमनुभवन्ती पूर्वं स्वाश्रय
भूतेभ्यः कूर्मादिभ्यस्स्वस्य संजातं सुखं सुखमिति नैव गणयामा सेत