This page has not been fully proofread.

50)
 
पञ्चमसर्गः
 
नीवारश्यामका
 
"
 
शालयः कलमाद्याः ' ) इत्यमरः । तृणधान्यानि
दीनि 'तृणधान्यानि नीवारा: इत्यमरः । एवं धान्यभेदा उक्ता:
फलभेदाश्च प्रसिद्धाः ।) तथासती । भृशम् अधिकम् अत्यन्तम्
सर्वाङ्गेषु सान्द्रं यथा भवति तथा । पुलकिता संजातरोमाचा एकत्र
संतोषातिशयात् अन्यत्र रागातिशयाच्च । धृतपुलकाङ्कङ्कुरा । इवेति
संभावनायाम् । तथाभूतेव समरज्यत गाढमन्वरज्यत भृशं संतोष
मनुरागं चानुबभूवेत्यर्थः । संपूर्वात् रञ्ज रागे' इत्यस्माल्लङ् ।
चिरात्स्वाभिलषिते भर्तरि संप्राप्ते तत्समागमेन संभृतरागोदयां
सर्वाङ्गीणरोमाञ्चवतीं नायिकां भूयसानुकुर्वाणा भूमिरियं ऋद्धिमतीं
सस्यसम्पदं तस्मिन् राजनि प्रासूतेति निर्गलितोऽर्थः । प्रजास्सुग्व
मेधयतो राज्ञः कल्पलतेव भूस्सर्वार्थसाधिका भवतीत्यस्मिन्नपि राज्ञि
तथा समभवदिति परमार्थ: । अतएव भर्तृहरिरेवमाह - राजन्
दुधुक्षसि यदि क्षितिधेनुमेनां । तेनास्य वत्समिव लोकमिमं पुषाण ।
तस्मिश्च सम्यगनिशं परिपुष्यमाणे । नानाफलं फलति कल्पलतेव भूमिः ॥
इति । अत्र सस्थनिरन्तरा भूमि: पुलकवतीत्येवं संभाव्यत इति
धर्मोत्प्रेक्षा । श्लेषश्च नान्तरीयक इत्युत्प्रेक्षांश एव निलीनो न पृथग़ल
ङ्कारव्यवहारतां लभत इत्यवगन्तव्यम् ॥
 
X
 
(
 
धौरंधर्यं नाम नायकगुण: कम्पराजे प्रस्तूयते
 
द्रढिमशालिनि भोगमनोहरे
 
कटकधारिणि दानगुणोजिते ।
 
नृपतिदोष्णि निवासमुपेत्य भू
रलघयत्प्रथमास्पदगौरवम् ॥
 
द्रढिमेति ॥ भूः भूमिः । कर्त्री ।
दाढर्थम् स्थौल्यम् अन्यत्र काठिन्यं च ।
 
66
 
285
 
11 6 ॥
 
दृढस्य भाव: द्रढिमा
कूर्मपृष्ठस्यातिकठिनत्वात् ।