This page has not been fully proofread.

284
 
मधुराविजये
 
करपरिग्रहमाचरति प्रभौ
मृदुतरं मुदितप्रकृतिर्मही ।
विविधसस्यविशेषनिरन्तरा
पुलकितेव भृशं समरज्यत ॥
 
5 11
 
करेति ॥ प्रभौ कम्पराजे । चिरात्स्वाभिलषितवरे इति गम्यते ।
 

 
तस्मिन् करस्य बलेः कर्षकादिभ्यो ( राज) ग्राह्यधनस्य ' भागधेयः करो
बलिः' इत्यमरः । तस्य परिग्रहम् स्वीकारम् । पाणिग्रहणमिति च
गम्यते । मृदुतरम् अत्यन्तसुकुमारम् अणुमात्रमपि मनःपीडा यथा न
भवति तथा । राज्ञां करग्रहणविषये यथाह मनुः
 
"नोच्छिन्द्या
 
दात्मनो मूलं परेषां चातितृष्णया । उच्छिन्दन् ह्यात्मनो मूलमात्मानं
तांच पीडयेत्" इति । पञ्चमवेदस्त्वेवमाह -
यथा मधु समादत्ते
रक्षन् पुष्पाणि षट्पदः। तद्वदर्थान् मनुष्येभ्य आदद्यादविहिंसया
इति । अनुरागवशान्नागरकवृत्त्येति च गम्यते ।
 
"
 
आचरत
 
प्रजा: रक्षन्नविहिंसया ताभ्यो बलि गृह्णति सतीत्यर्थः । अनुष्ठितवतीति
च गम्यते । मही भूमि: भूसती राज्यलक्ष्मीरिति च गम्यते । मुदिता
प्रमोदिता संतोषिता प्रकृतिः पौरवर्गः यस्याः तथोक्ता । (राजा)
षितस्वप्रजानीका सतीत्यर्थ: । मुदेयंन्तात्कर्मणि क्तः । 'उदुपधाद्भावादि
कर्मणो' रिति पाक्षिकं कित्त्वम् । संतुष्टस्वभावेति
 
च गम्यते
 
, प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः । योनौ लिङ्गे पौरवर्गे
इत्युभयत्रापि मेदिनी । तथाविधा सती । विविधैः बहुविधैः अनेक
रूपैः सस्यविशेषैः सस्यभेदैः वृक्षादिफलभेदैः शमीधान्यशूक
तृणादिधान्यभेदैश्च । निरन्तरा निरवकाशा आच्छादितस्वरूपा
समृद्धिमतीत्यर्थः । ( शमीधान्यं माषमुद्गादि 'माषो मुद्
माषः कुलत्थश्चणकस्तिलः । काकाण्डवीवर इति शमीधान्यगणस्स्मृतः
इति रत्नकोषः । यवगोधूमादिशुकधान्यम् - शुकधान्ये यवादय
 
(
 
"
 
"