मधुराविजयम् /418
This page has not been fully proofread.
पञ्चमसर्गः
प्रहितचारगणेन विवस्वता
प्रसृतदीधितिना भुवनेष्विव ॥
"
॥ 4 ।
असुहृदामिति ॥ तेन राज्ञा । प्रहिताः प्रेषिताः चरन्ति देशानिति
चराः । पचाद्यच् । त एव चारा: गूढपुरुषाः । प्रज्ञादित्वादण् । ' प्रणिधि
रपसर्पश्चर स्पशः । चारश्च गूढपुरुषश्च ' इत्यमरः । तेषाम् गण: समूहः सः
येन तथोक्तः । तथाभूतेन सता । सुहृदाम् मित्त्राणाम् मण्डलेषु देशेषु
राष्ट्रेष्विव । 'मण्डलं देशबिम्बयो' इति सुधा । असुहृदाम् दुहृदाम्
शत्रूणाम् मण्डलेष्वित्यस्यार्थादाक्षेपः । शत्रुराष्ट्रेष्वित्यर्थ: । विवस्वता जग
चचक्षुषा सूर्येण 'भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः' इत्यमरः । तेन
प्रसृता: व्यापृताः दीधितय: किरणा: येन । तथाविधेन सता भुवनेषु
जगत्स्विव ' अथो जग़ती लोको विष्टपं भुवनं जगत्' इत्यमरः । तेषु
अलक्षितम चारवीक्षणेन अदृष्टम् अनधिगतम् अज्ञातमिति यावत् ।
'राजानचारचक्षुषः' इति स्मरणादिति भावः । लक्ष दर्शनाङ्कयोः कर्मणि
क्तः । किञ्चित् ईषत् अल्पम् अणुमात्रमपीत्यर्थः । न नभवति । अमित्राणां
मित्रणां च वृत्तानि सर्वाणि सर्वत्र चारमुखेन क्षणक्षणं स विदितवानिति
भावः । अत्र कामन्दकः चारान् विचारयेत्तीर्थेष्वात्मनश्च परस्य च ।
पाषण्डादीनविज्ञातानन्योन्यमितरैरपि " इति । सूर्यो यथा स्वकिरण
व्याप्त्या जगत्सर्वमधिगच्छति तद्वदयमपि सर्वत्र स्वचारसंचारणेन
सर्वान् तत्तन्मण्डलवृत्तान्तानित्युपमार्थ: । सूर्यकिरणानां यथावाऽप्रतिहत
प्रसरत्वं सर्वत्र तथास्य चाराणामपि शनुमण्डलेष्विति वाक्यार्थगतो
पमेयम् । कालिदासोऽप्यतिथिप्रभुमेवमेव वर्णयति - " न तस्य मण्डले
राज्ञो न्यस्तप्रणिधिदीधितेः । अदृष्टमभवत्किञ्चिद्वय भ्रस्येव विवस्वतः "
इति ॥
288
1
'प्रशाधि काञ्चीमनुवर्तितप्रज' इति पूर्वं पित्रा यदुपदिष्टं पितृ
देवोऽयं तदक्षरशः परिपालयतीति प्रकृतिरञ्जनं राज्ञयस्मिन् प्रस्तौति ।