This page has not been fully proofread.

पञ्चमसर्ग:
 
" सोऽग्निर्भवति वायुश्च सोऽर्कस्सोमस्स धर्मराट् । स कुबेरस्सवरुणस्स
महेन्द्रः प्रभावतः इति । अत्र राजनि तात्रदिन्द्रोपेन्द्रत्वसंभावनया समु
त्थितायां द्रव्योत्प्रेक्षायाम् 'अरिबलापह' मित्यादिशब्दगतार्थद्वयात्मक
३ श्लेषस्साम्यसंपादनेन चरितार्थ इति श्लेषानुप्राणितोत्प्रेक्षालङ्कारः ॥
 
कम्प राजस्य नीतिनैपुणं प्रशंसति
 
प्रथितशक्तिरवाप्तफ़लोदय:
 
प्रगुणयन् पणबन्धमुखान् गुणान् ।
निपुणधीनिरपायमुपाय वि
त्प्रभुरभुङ्क्त नवां नयसम्पदम् ॥
 
""
 
-
 
281
 
11 ³ 11
 
प्रथितेति ॥ निपुणा कुशला कर्तव्यार्थेषु चतुरतां प्रदर्श्य
श्रममन्तरैव फलसाधिकेत्यर्थः । तादृशी धीः बुद्धिः यस्य तथोक्तः ।
तथा भूतः । किश्व । उपायान् सामादीनुपायान् सर्वान् विदितवानिति
विदेः क्विप् ।
' भेदो दण्डस्सामदानमित्युपायचतुष्टयम्' इत्यमरः ।
उपेक्षया साकं पश्चेति शुक्रः । केचित्तु मायोपेक्षेन्द्रजालैस्साकं सप्ते
त्यपि वदन्ति । " साम दानं च भेदश्च दण्डश्चेति चतुष्टयम् ।
मायोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीर्तिताः " इति । देशकालानुगुण्येन
यथोचितमेतान् प्रयुज्य फलसम्पादनेऽत्यन्तं समर्थ इति भावः ।
तादृशः । विशेषणद्वयमिदमुत्तरत्र हेतुतयान्वेति । यतो निपुणधीः यत
उपायवित् तत इत्यर्थः । प्रभुः कम्पराजः । कर्ता । पणबन्धः सन्धिः ।

" पणबन्धस्सन्धि " रिति कौटिल्य अतएव कालिदास आह -
पणबन्धमुखान् गुणानजष्षडुपायुङ्क्त समीक्ष्य तत्फलम् " इति । सः
मुखम् आदिः येषां ते तथोक्ता संध्यादय इत्यर्थ: । तान् गुणान्
 
-
 
षड्गुणान्
 
'सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणा:
 
इत्यमरः । प्रगुणान् कुर्वन् प्रगुणयन् देशकालाद्यौचित्येन सम्यक्प्रयुज्य
 
7