मधुराविजयम् /415
This page has not been fully proofread.
मधुराविजये
मुक्तिः । अरिणा चक्रेण बलापहम् दैत्यसेनानाशक मिति वा । ( इन्द्रपक्षे )
अरिः (स्वस्य) शत्रुभूतः बलः तदाख्योऽसुरः तम् अपहन्तीति तथा । बलासुर
निषूदन इत्यर्थ: । 'अपे क्लेशतमसो' रिति हन्तेर्ड: क्लेशतमसोः कर्मणो
रुपपदयोरेव विहितस्तथापि 'अन्येष्वपि दृश्यते' इत्यपिशब्दसामर्थ्या
द्धन्तेरितरोपपदादपि क्वचिड्डः । अतएव कालिदासः - " परकर्मापहस्सो
ऽभूदुद्यतस्स्वेषु कर्मसु ' इति प्रायुङ्क्त । किञ्च । आश्रितनन्दनम् - (राज
पक्षे, विष्णुपक्षे च) नन्दयतीति नन्दनः संतोषजनकः । नन्द्यादित्वाल्ल्युः ।
आश्रितानाम् स्वसेवकानाम् नन्दनः स्वाश्रितत्राणपरायण इत्यर्थ: । (इन्द्र
पक्षे) आश्रितम् स्वनिवासतया प्राप्तम् नन्दनम् तदाख्यं देवोद्यानम् येन
तथोक्तः । नन्दनोद्यानविहारीत्यर्थः । तम् । किञ्च । सुमनसाम
(राज
पक्षे) विदुषाम, (इन्द्रपक्षे, विष्णुपक्षे च) सुमनसाम देवानाम 'सुमनाः
पुष्पमालत्योः । स्त्रियां ना धीरदेवयोः' इत्युभयत्रापि मेदिनी । मनसः
चित्तस्य । प्रियम् प्रीतिम् संतोषम् ददातीति णिनिः । युगागमः ।
आपद्भ्यो रक्षणेन देवताप्रीतिभाजने इन्द्रोपेन्द्राविव विद्यागोष्ठीभिविद्व
ज्ज़नप्रीतिभागयं राजेति वाक्यार्थः । ( इत्थं शब्दकृतसाम्यात्) तम्
कम्पनप्रभुम् । कर्म । वसुमतीम् भूमिम् 'सर्वसहा वसुमती वसुधोर्वी
वसुंधरा' इत्यमरः। अवतीर्णम् प्राप्तम् भूलोके कृतनिवासमित्यर्थः ।
तम् कम्पनप्रभुम् । अपरम् द्वितीयम् । हरिम विष्णुम् इन्द्रं च । 'हरि
र्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु' इति विश्वः । इवेति संभावनायाम् ।
तमिव । सततम् निरन्तरम् अविश्रान्तम् । निरन्तरक्रियाकरणं संतता
दिभिरुच्यत इति मकुट: । आश्रितनन्दनादीनि सततं गजा करोतीति
सततं तथा संभावयन्ति तं जना इति भावः । अमंसत अमन्यन्त । मन
ज्ञाने – इत्यस्यानिटो लुङ् । अरिबलापहाश्रितनन्दनसुमनः प्रियवादि
गुणसंपत्त्या राजायं विष्णुर्भवेदिन्द्रोऽयं भवेदिति जना उत्पश्यन्तीति निर्ग
लितोऽर्थः । राज्ञो विष्णुत्वं दिक्पालांशकत्वेन देवेन्द्रत्वं च शास्त्रसिद्धमित्यु
त्प्रेक्षेयमौचित्यं परिपोषयति । अत्रागम: -
"ना विष्णुः पृथिवीपतिः
280
S
1P