This page has not been fully proofread.

पञ्चमसर्गः
 
279
 
शिष्टिश्वाज्ञा च ' इति सुधा । अविद्यमानम् प्रतिशासनम् यस्मिन्
कर्मणि यथा भवति तथा । ' नञोऽस्त्यर्थाना ' मित्युत्तरपदलोपः ।
अप्रतिहतया निजाज्ञयेत्यस्मिन् दण्डविजयः कथ्यते । यथाह मनुः -
" सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भया
त्सर्वं जगद्रोगाय कल्पते " इति । अतएव अनाकुलम् अव्याकुलम्
निरुपद्रवम् निरीतिबाधं यथा भवति तथा । ईतिबाधाश्च षड्- "अति
वृष्टिरनावृष्टिर्मूषिकाशलभारशुकाः । अत्यासन्नाश्च राजानो षडेता ईतय
स्स्मृताः" इति । तथा अरक्षत् पर्यपालयत् । मरकतनगरीं स्वराज
धानीं कृत्वा सुग्रीवाज्ञया शासत् प्रजास्सुखयांबभूव कम्पराज इति
निर्गलितोऽर्थः । अत्र वृत्त्यनुप्रासो नाम शाब्दोऽलङ्कारः । तल्लक्षणं तु
पूर्वमुक्तम् । सर्गेऽस्मिन् द्रुतविलम्बितं वृत्तम् । द्रुतविलम्बितमाह
नभौ भरौ ' इति तल्लक्षणात् । सर्गोऽयं काञ्चीपुरराज्यपरिपालनया
समारब्धस्समाप्यते ऋतुवर्णनया साकं नायकस्य तत्समयोचिततृतीय
पुरुषार्थानुभूतिसमुपवर्णनेन ॥
 
देवतात्मतापरपर्यायं महामहिमत्वं नाम नायकगुणः कम्पराजे
 
वर्ण्यते-
-
 
अरिबलापहमाश्रितनन्दनं
सुमनसां मनसः प्रियदायिनम् ।
वसुमतीमवतीर्णमिवापरं
हरिममंसत तं सततं प्रजाः ॥
 
॥2॥
 
अरीति ॥ प्रजाः जनाः लोक इत्यर्थः । ते कर्तारः । अरिबलाप
 
हम् (राजपक्षे ) अरिबलम् शत्रुसैन्यम् अपहन्ति नाशयति शात्रव
सैन्यानां विजेतेत्यर्थः । (विष्णुपक्षे ) अरिबलम् शत्रुभृतां राक्षससेनाम् अप
हन्तीति तथा । राक्षससंहर्तेत्यर्थः । विष्णोदैत्यारित्वेन लोकविदितत्वादेव
 
-