This page has not been fully proofread.

मधुराविजये
 
यदित्यर्थः । शासु अनुशिष्टौ – लुङ् ।
 
सतिशास्त्यतिभ्यश्च ' इति
 
चलेरङ् शास इदङ्घलो: ' इत्युपधाया इत्त्वम् । 'शासिवसिघसीनां
 
चेति षत्वम् । ) काञ्चीपुरविजयानन्तरमयं राजा वर्णाश्रमवर्मरक्ष
णेन तत्प्रजास्स्वस्वधर्म स्थापयन् धर्मो रक्षति रक्षितः ' इति न्यायत
स्समधिगतदिन दिनाभ्युदयेन स्वशक्त्युपचयं कुर्वाणरशत्रोर्यवनराजस्य व्यस
नेन तदपचयं च प्रतीक्षमाणः काञ्चयां कञ्चित्काल परिपालयामास
प्रजाः कम्पराजस्सुखेनेति तात्पर्यार्थः । सपरिसमाप्ति सूचयति वृत्त
विपरिणामः । वृत्तमिदं शार्दूलम् सूर्याश्वैर्मंसजास्ततस्सगुरवश्शार्दूल
विक्रीडितम्' इति ॥
 
276
 
(
 
-
 
"
 
"
 
"
 
इति
 
श्रीगङ्गादेव्या विरचिते
 
मधुराविजयनाम्नि वीरकम्परायचरिते
 
काञ्चीपुरविजयप्रशंसा नाम
चतुर्थ सर्गः
 
इतीति ॥ सर्वं पूर्ववत् । काञ्चीपुरविजयः चम्पराजवर्धन काञ्ची
नगरवशीकरणम् । तस्य
प्रसिद्धौ । कम्पराजकृतका चीपत्तनाक्रमणवृत्तान्तेन प्रख्यातम् प्रधान
प्रशंसा प्रस्तुति कीर्तनम् । नामेति
तथा समुपवणिततद्वृत्तविषय इत्यर्थः । चतुर्थ चतुर्णाम् पूरण: चतु
स्संख्यापूरकः । " षट् कतिपयचतुरा' मिति डटि थुक् । अत
एव ज्ञापकाडुट् । ( सर्ग: काव्यभागः ) इति समाप्त:
तु विशेषः ॥
 
) इति
 
-