This page has not been fully proofread.

10
 
"
 

 
नैव वर्णिता अस्मिन्नायक इति, रसपरिपोषणे नितरां जागतयं कविः ।
वीरस्य चैतस्य समुद्दीपकतया वर्णिता:- बुक्कराजप्रबोधः, मधुराधिदेवता
संलापाः ( प्रतिनायकदुर्नयादिप्रदर्शनात्मका: ) ( 3 स 8 स० )
काञ्चीपुरदण्डयात्रासंरम्भादयो रसस्थायिनममुं यथोचितं पराकाष्ठता
मनयन् ( 4 स० ), अन्ये रसातत्समुद्दीपकतया प्रवृत्ताः प्रौढोक्त्या
सहृदयाह्लादका भूत्वा प्रधानरसस्याआवमन्वभूवन् - 4 स. 61, 64,
66 श्लो.
9 स. 20, 31 श्लो. प्रभृतयः । प्रतिवीरश्च यवनसम्राट् ।
सोऽयं रावणादिवद्धीरोद्धतो मानवतामग्रेसरश्शूरः । अस्य वर्णनं च युद्ध
वीरत्वप्रसाधकमभूदस्मिन्नायके । वीराश्च धर्मवीरो दयावीरो दानवीरो
युद्धवीर इति चतुर्धा विभक्ताः । अस्य वीरस्य चालम्वनविभावः कम्प
राजः । सहायसंपदाद्यन्वेषणादयोऽस्यानुभावाः । बुक्कराजकृतसभासंभा
वनादयः ( स्वावयवेभ्योऽवतारितभूषणभूषितत्वादयः ) उद्दीपका: । तत्त
संदर्भेषु प्रकथिता धृतिमत्यादयश्च संचारिणः । अस्य धीरोदात्त
ताया अङ्गभूतां महासत्त्वसमृद्धि सूचनासारतया न्यवेदयतां पञ्चम
षष्ठसगौ शृङ्गारप्रायौ । दृढव्रतादयश्च अनिदम्प्रथमो हि धार्यते
( 8 स. 30 श्लो) इत्यादिना प्रस्तूयन्ते । निगूढाहङ्कारादयश्च
स. 44, 47 श्लो. प्रभृतिषु सूचिताः ।
बोधिता दयावीरत्वादयः - 9 स 42 श्लो. प्रभृतिषु । नायकोऽयं युद्ध
वीरो धर्मवीरश्च – 4 स. 88 श्लो. प्रभृतयः । अङ्गरसाच शृङ्गारादय
स्साङ्क विना रससामग्रीसंकोचं विना परिपुष्टा इति रसस्य स्फुटता
सम्यगाविष्कृता सिद्धहस्तयाऽनया कवयित्र्याऽस्मिन् काव्ये ।
 
3
 
शरणागतत्राणत्वादिभिश्च
 
(
 
-
 
गुणरीत्यादयः
 
'नवोऽर्थ ' इत्यपि बाणोक्तिः । अर्थस्य नव्यता च वर्णनीयार्थ
नव्यतां वदति । नव्यतामिमां कविः कश्चनेत्थं न्यरूपयत् – सोऽयं भणिति
भणितिवैचित्र्यात्समस्तोवस्तुविस्तरः । नटवद्वणिकायोगादन्यथात्वमिवर्छति ।