This page has not been fully proofread.

272
 
मधुराविजये
 
देवानामनिमेषतादरासम्वन्धेऽपि तत्सम्बन्थोऽत्र वर्णित इत्यतिशयोक्ति
रलङ्कारः ॥
 
अन्तबिम्बितचम्पेन्द्रा कम्पेन्द्रस्यासिपुत्रिका ।
अप्सरोभ्यः पति दातु मन्तर्वत्नी किलाभवत् । ॥827
 
81₁
 
अन्तबिम्बितेति ॥ अन्तः अन्तरा विम्वितः संजातप्रतिविम्वः
बिम्बवान् कृत इति वा । 'बिम्बंतु प्रतिविम्बे स्यान्मण्डले
विम्बिकाफले ' इति हैम: । ( तादृशः ) चम्पेन्द्र चम्पराजः यस्यां
तथोक्ता । प्रतिफलितचम्पराजप्रतिबिम्बाश्रयेत्यर्थः । कम्पेन्द्रस्य कम्प
राजस्य । असिपुत्रिका - असेः पुत्त्री असिपुत्त्री । सैव असिपुत्रिका
अल्पोऽसिरित्यर्थः । अतएव ' स्याच्छस्त्री चासिपुत्री च छुरिका
चासिधेनुका' इत्यमरः । तथाप्यत्र विशेषस्य सामान्ये लक्षणया खड्ग
मात्रपरतास्य । तत्वङ्ग इत्यर्थः । अथवा
समासः । पुत्रिकेव प्रियतमोऽसिरिति वा । असिरेव पुत्रिकेति च
पुत्रिकेवासिरित्युपमित
गम्यते । अनेन
परिभ्रमणानन्तरमेकत्रावस्थितिरेतयोस्सूच्यते ।
 
( सा ) अप्सरोभ्य: सुरकन्याभ्यः । पतिम् भर्तारम् समुचितमित्यर्थः ।
दातुम् अर्पयितुम् समुचितपतिसमर्पणेन ता अनुग्रहीतुमिवेति गम्योत्प्रेक्षा ।
अन्तर्वी आपन्नसत्त्वा तदर्ये गर्भवती । ' आपन्नसत्त्वा स्याद् गुविण्य
न्तर्वत्नी च गर्भिणी' इत्यमरः । अन्तः अस्त्यस्यां गर्भ इति विग्रहे
 
-
 
' अन्तर्वत्पतिवतो' रिति मतुन्नुगागमौ । ङीप् च । तथाविधा ।
अभवत् आसीत् । किलेति संभावनावाम् ।
अभिचम्पराजं प्रसारिता प्रतिवीरप्रतिविम्बसमलङ्कता कम्पराजखड्ग
एवमुत्प्रेक्ष्यत इत्यर्थः ।
लता सा अन्तस्सत्त्वा तस्य कुमारीव व्यराज़त इत्येवं सम्भाव्यते ।
कम्पराजकरवाले चम्पराजप्रतिफलनवर्णनात् लक्ष्यपातापसरणे शक्तता
चम्पराजस्य ज्ञायते । अप्सरोभ्यः पतिं दातुमित्यनेन महावीरस्य
 
चम्पराजस्य वध एतद्रुत्तरक्षण एवावश्यं भविष्यतीति गम्यते ।
 
दातुम्