This page has not been fully proofread.

चतुर्थ सर्गः
 
कक्ष्याविभक्तवपुषो श्वारीभिश्चरतोस्तयोः ।
पश्यद्भिस्सौष्ठवं देवं रनिमेषत्वमादृतम् ॥
 
1
 
भिरित्यर्थः ।
यते ।
 
कक्ष्येति ॥ चारीभिः परिभ्रमणविशेषैः सव्यापसव्यार्थभ्रमणादि
यथाह भरतः एकपादप्रचारो यस्स चारीत्यभिधी
द्विपादक्रमणं यत्तु करणं नाम तद्भवेत् ॥ करणानां समा
योगात्खण्ड मित्यभिधीयते । खण्डैस्त्रिभिश्चतुभिर्वा संयुक्तं मण्डलं भवेत् ॥"
'चारीभि' रिति बहुता सर्वानेतान् संगृह्णाति प्रवृत्तिनिमित्तारोप
रूपनिरूढलक्षणया । स्पष्टं चेदं ' सप्तमी शौण्डै' रित्यत्र कैयटे ।
एताभि: करणभूताभिः । चरतो: परिभ्रमतोः । अतएव कक्ष्या
विभक्तवपुषो कक्ष्ये रशने ( अथवा ) योधानां परिधानबन्धविशेषौ
वा । 'कक्ष्या कच्छे वरत्रायां काञ्चयां गेहप्रकोष्ठके' इति नानार्थ
रत्नमाला । ताभ्याम् विभक्ते पृथक्कृते वपुषी शरीरौ शरीरावयव
भूतपूर्वकायापरकाया वित्यर्थः । वपुश्शब्दोऽत्र समुदाये वर्तमानाश्शब्दा
अवयवेष्वपि वर्तन्त' इति न्यायेन तदवयवपरः । ते ( वपुषी )
ययोः तथोक्तौ । परिभ्रमणकृतवेगातिशयेन तच्छरीरयोरेकाकारतैव
स्फुरति नतु तत्र पूर्वापरविभागः । स तु केवलं कक्ष्याविभागेनेति
भावः । (तादृशयोः) तयोः प्रकृतनृपालयोः । सुष्ठु भावः सौष्ठ
वम् सुष्ठुता परिभ्रमणपाटवमित्यर्थः । अव्ययात् सुष्ठुशब्दात् 'उद्
गात्रादिभ्यः' इत्यन् । तत् कर्म । पश्यद्भि आलोकयद्भिः । देवैः
अमरैः । 'अमरा निर्जरा देवाः' इत्यमरः । तैः कर्तृभिः । अविद्य
तेषां
माना: निमेषाः नेत्रनिमीलनानि येषाम् ते अनिमेषाः देवाः ।
भावः तत्त्वम् – देवत्वम् । स्वीयमित्यर्थः । आदृतम् संभावितम् ।
अनिमेषत्वमिदानीमस्माकं चरितार्थमिति सानन्दममन्यन्त ।
तदर्शनावसरे नेत्रनिमीलनेन मध्ये मध्ये क्रियाविच्छित्तेरनिवार्यत्वेन
तज्जनिताखण्डानन्दानुभूतेरपि क्षणक्षणविच्छेदसंभवादिति भावः । अत्र
 
अन्यथा
 
"(
 
271
 
-
 
118011