This page has not been fully proofread.

48)
 
चतुर्थसर्गः
 
लज़न्यतरस्याम् इति लच् । जिह्मगः भुजगः सर्पः ।
 
वल्मीकात्
 
इत्यमरः ।
 
वामलूरुश्च नाकुत्र वल्मीक पुंनपुंसकम्
यथा वा पराभूतः कालाहिर्भीषणक्रोधेन परिस्फुलज्जिह्वश्शीघ्रं शत्रु
वधाय स्वाश्रयाद्वहिस्समागच्छति तथायमपि द्रविड राजस्स्वदुर्गोपद्रवेण
शात्रवजनितेन प्रकुपित: ग्वद्भहस्तो युद्धाय महता वेगेन समागच्छ
दित्युपमार्थ: । सावयवोपमेयम् ॥
 
नाकोरिव ।
 
6
 
द्रविडाधीशकर्णाटाधीशयोर्युद्धं वर्णयितुमुपक्रमते
अहंपूर्विकया वीरे ध्वभितो युद्धकाङ्क्षिषु ।
प्रत्यग्रहीन्महीपाल श्चम्पं सिंह इन द्विपम् ॥ 11781
 
"
 
-
 
-
 
(
 
-
 
अहंपूर्विकेति ॥ वीरेषु शूरेषु स्वयोधेषु । 'शूरो वीरश्च
विक्रान्त: ' इत्यमरः । अहंपूर्विकया अहं पूर्वः अहं पूर्वः इति
यस्यां तथा (योधानां ) धावनक्रियया । अहंपूर्वमहंपूर्वमित्यहंपूर्विका
स्त्रियाम् ' इत्यमरः । अभितः शीघ्रम् सोत्कण्ठमित्यर्थः । 'समीपो
भयतश्शीघ्रसाकल्याभिमुखेऽभितः इत्यमरः । युद्धकाङ्क्षिषु - युद्धं
काङ्क्षन्ति वाञ्छन्ति इति णिनिः । सोत्साहं यो सन्नद्धेषु तान
नादृत्येत्यर्थः । 'षष्ठी चानादरे' इति चकारात् सप्तमी । महीपाल :

राजा कम्पनः । कर्ता । सिंह: मृगेन्द्र: । द्विपम् गजमिव । महोत्सा
हेनेति भावः ।
द्विरदोऽनेकपो द्विप: ' इति गजपर्यायेष्वमरः । द्वाभ्याम्
करेण मुखेन च पिबतीति 'सुपि स्थः' इत्यत्र 'सुपी' ति योग
विभागात्क: । प्रत्यग्रहीत् जग्राह आचक्रामेत्यर्थ: । प्रतिपूर्वात् ग्रह
उपादाने इत्यस्माल्लुङ् । मृगेन्द्र द्विपमिवेत्युपमया सिंहद्विपयोरिव
महदन्तरमेतयोरिति नायकोत्कर्षस्सूच्यते ॥
 
(
 
269
 
(
 
इत आरभ्य चतुर्भिरश्लोक: कम्पराजचम्पराजयोर्द्वन्द्वयुद्धं वर्ण्यते
तो निश्चितपूर्वा निश्चलाक्षौ कृपाणिनौ ।
उचितस्थानकावास्तां चित्रन्यस्ताविव क्षणम् ॥ ॥ 79 ॥