This page has not been fully proofread.

मधुराविजये
 
( तत् ) मूर्ध्ना शिरसा । अधारयत् अग्रहीदिवेत्युत्प्रेक्षा । विजयिनां
राज्ञां नीराजनविधिरुचित इति तं निर्वर्तत इव पर्वतो वर्तत इति
भावः । पर्वतदुर्गोपरिभागस्सर्वोऽपि जाज्वल्यमानैर्वाणैराच्छादित इत्यत
एवं संभाव्यते । धूङ् अवस्थाने – इत्यस्मात् हेतुमण्ण्यन्ताल्लङयमिति
वक्तुं युक्तमिति पूर्वमवोचाम ॥
 
266
 
विजितशात्रवाणां कर्णाटभटानां बलाद् दुर्गाक्रमणप्रकारो वर्ण्यते
 
विन्यस्त कुन्तनिश्रेणी श्रेणिभिर्वोरपुङ्गवैः ।
आक्रान्तसालशृङ्गायै राख्ह्यत महीधरः ॥ ॥ 74 ॥
 
-
 
"
 
विन्यस्तेति ॥ कुन्ता: भल्लानि त एव निश्रेण्यः अधिरोहण्यः ।
कृदिकारादिति वा ङीष् । तासाम् श्रेणयः पङ्क्तय: । विन्यस्ताः निक्षिप्ताः
दृढं स्थापिताः कुन्तनिश्रेणी श्रेणयः यैरिति विग्रहः । तैः । पर्वत
मारोढुं स्वभल्लानि निश्रेणीरिव कृत्वा बद्धश्रेणीषु तेष्वधिरूढ़रित्यर्थः ।
अतएव सालशृङ्गाणि प्राकारशिखराणि तेषाम् अग्रम् प्रान्तप्रदेशः ।
अग्रं पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते
च स्यान्नपुंसकम् इति मेदिनी । आक्रान्तम् बलाद् गृहीतम् साल
शृङ्गाग्रम् यैः तैः। वीरपुङ्गवैः यो श्रेष्ठैः कर्णाटसुभटैरित्यर्थः । मही
धरः पर्वतः पर्वतदुर्गमित्यर्थः । आरुह्यत अध्याक्रमत । पश्यतश्शतूनना
दृत्य प्राकारशिखरप्रान्तप्रदेशं समुचितेनोपायेन समारुह्य तद्द्वारेतिभावः ।
कर्णाटसैन्यानि दुर्गं प्रविविशुद्रविडसैन्यानि तृणाय मत्वेति सारांशः । आङ्
पूर्वाद् रुहेः कर्मणि लङ् ॥
 
}
 
अन्तर्दुर्गाचचम्पराजबहिरागमनाय कृतं दुर्गोपद्रवं कथयति
 
अथोद्भटभटक्ष्वेड़ा गलित भ्रूणगाभिणम् ।
निहता सनदीमज्ज ज्जनताशास्यजीवितम् ॥ ॥ 76 ॥