This page has not been fully proofread.

47)
 
चतुर्थसर्गः
 
अतएव धावन्तः शीघ्रं गच्छन्तः ।
आत्मनः स्वस्य । छायाम् अनातपमेव ।
प्रतिबिम्बार्कयोषितोः' इति मेदिनी । ताम् कर्मभूताम् । अराति
शङ्कया शत्रुभ्रान्त्या स्वहननाय शत्रवस्संप्राप्ता इति भ्रमेणेत्यर्थः ।
धावद्भिस्तैस्साकं तच्छायाया अपि धावनादेवं भ्रमस्तेषामासीदित्यव
गन्तव्यम् । स्वच्छायायामपि शत्रुभ्रान्तिरिति तेषां भयव्यग्रता व्यज्यते ।
( तादृश्या भ्रान्त्या) दष्टाङ्गुलि - दष्टा व्यापृतदन्तव्यापारा अङ्ग लिः
करशाखा यस्मिन् कर्मणि यथा भवति तथा । अङ्गलि मुखे
निक्षिप्य दष्ट्वेत्यर्थः । अङ्गुलिदंशनतृणभक्षणादयश्शरणागतिसंसूचका
इति तद्वधे प्रत्यवायस्मरणात् स्वप्राणरक्षणाय तैस्तदाश्रयणमिति
भावः । ( तथा कृत्वा ) ववन्दिरे अभ्यवादयन् नमश्चक्रुः । शत्रुभ्यः
कृताञ्जलयोऽभवन्निति यावत् । कृताञ्जलीनां वधेच प्रत्यवायस्स्मर्यते
यथाह मनुः – " न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् । न
मुक्तकेशं नासीनं तवास्मीति च वादिनम् " इति ।
अङ्गुलिदंशनं
चात्र दासतामभिदधत् तवास्मीतिवादिन एतान् करोति । दास्यलक्ष
णान्येवमुदाहृतान्यागमे – पद्यमङ्ग लिविच्छेदः
पद्यमङ्गुलिविच्छेदः उरोविन्यस्तमक्षरम् ।
तन्नामकरणं चेति दास्यमेतच्चतुष्टयम्' इति । तथाचाङ्ग लिदंशन
मेव प्राणत्राणायालम् । कृताञ्जलितात्वेषामधिकस्याधिकं फलमिति
 
"
 
न्यायेनेति भावः । यद्वा
 
दीर्घमालोचयतामङ्गळुलिदंशनं
 
लोकदृष्ट
 
प्रवृत्तानां
 
मिति शत्रूणां हठादागमनेन तदपायप्रतीकारसंचिन्तनाय
तेषामपि (लोक) स्वाभाव्यादेवं जातमिति मन्तव्यम् । कष्टमिति
खेदे । एतादृशी स्थितिस्तेषां शोच्येत्यर्थः । स्वच्छायायां शत्रुभ्रान्ति
●रासीदिति भ्रान्तिमानलङ्कारः । तेन च नित्यानपायिनीषु स्वच्छाया
स्वपि शत्रुभ्रान्ति जनयतां कम्पराजभटानां वीर्यातिशयोऽनिराधा
 
रण इति ध्वन्यते ॥
 
भावः ।
 
शात्रवानुगमनभयेनेति
' छाया स्यादातपाभावे
 
राजगम्भीरं नाम शत्रुदुर्गम् । तदाक्रमणमथ प्रब्रूते
 
26 1
 
1