This page has not been fully proofread.

258
 
मधुराविजये
 
पलायनप्रकारं तावदाचष्टे
 
उल्लङ्घयोल्लङ्घ्य धावत्या भ्रंशितमायुधम् ।
प्रायः प्रधनसंन्यासे शपथः कश्चिदादधे ॥ 11 63
 
-
 
भीत्या
 
उल्लङ्घयेति ॥ उल्लङ्घय उल्लङ्घय मण्डूका इव उत्प्लुत्य
उत्प्लुत्य । धावद्भिः शीघ्रं गच्छद्भिः । शत्रुभ्य: प्राणान् रक्षितु

मिति भावः । कैश्चित् कतिपयैस्सैनिकैः । प्रयोज्यकर्तृभिः ।
भिया प्राणा अवश्यमस्मान् त्यक्ष्यन्तीति बुद्ध्युत्पन्नेन भयेन ।
जककर्य्या । नायिकयेति गम्यते । तदाश्लेषजनितवेपथुना सात्त्विक
भावेनेति च । आयुधम् स्वपरिगृहीतानि शस्त्राणीत्यर्थ: । जातावेक़
वचनम् । भ्रंशितम् भ्रंशितानि अधःपातितानीत्यर्थः । भ्रशु भ्रंशु
अधःपतने ण्यन्तात्कर्म
 
प्रयो
 
क्तः ।
 
तत्रोत्प्रेक्षते
 
(
 
प्रधनम् युद्धम् । युद्ध
मायोधनं जन्यं प्रधनं प्रविदारणम्' इत्यमरः । तस्य संन्यासः सर्वथा
सर्वदा परित्यागः । तस्मिन् । शपथः सुतादिभिशपनम् ।
शप नं
शपथः पुमान्' इत्यमरः । आदधे जगृहे अग्राहि । आङ्पूर्वात् डु
धानः कर्मणि लिट् । प्राय इति संभावनायाम् । नूनमित्यर्थः । अत्र
प्रतिवीरेभ्यो भीतभीता एते प्रियतमं युद्धोपयोगिस्वशस्त्रजातं तृणव
द्विसृज्य धावन्तो युद्धे जुगुप्सावन्तः प्राणरक्षणधिया यावज्जीवं रण
रङ्गे नैव प्रवेक्ष्याम इति सशपथा आसन् किमिति संभाव्यते ।
अतः क्रियोत्प्रेक्षेयम् । अनया परराजसेनाभीत्यतिशयसंभावनया प्रकृत
वीराणां पराक्रमातिशयो निरुपम इति व्यज्यत इत्यलङ्कारेण वस्तु
ध्वनिः ॥
 
-
 
हतानुकारिणः केचित् क्षितौ निपतितास्ततः ।
क्रोष्टुर्भयेन धावन्तः कर्णाटान् पर्यहासयन् ॥ ॥ 64 11
हतेति ॥ ततः तत्र तस्यां सेनायामित्यर्थः । आद्यादित्वात्तसिः