This page has not been fully proofread.

चतुर्थ सर्गः
 
योद्धारश्शत्रुभिरपराङ्मुखा युध्यमानाः प्राणान् परित्यज्य स्वर्गं प्राप्य
रम्भादिभिस्सह रममाणा मोदन्त इति तात्पर्यार्थः । अत्र मनुः
 
आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं
शक्त्या स्वर्गं यान्त्यपराङ्मुखा: " इति । अत्र वीराणामेकत्र शयन
मपरत्र प्रबोध इति कार्यकारणयोभिन्नदेशत्ववर्णनादसंगतिरलङ्कारः ।
.." विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः इति तल्लक्षणात् ॥
 
अथ कम्पराजविजयो वर्ण्यते
 
-
 
"}
 
ततः कम्पनरेन्द्रस्य भटैर्भुजबलोत्कटैः ।
पलायत पराभूता द्रमिन्द्रवरूथिनी ॥
 
62
 
257
 
तत इति ॥ ततः अनन्तरम् कंचित्कालमेवं तौल्येन युद्धे
प्रवृत्ते तदुत्तरकाल इत्यर्थः । द्रमिडेन्द्रः द्रविडराज़: चम्पराज इत्यर्थः ।
तस्य वरूथिनी सेना । कर्म । भुजबलम् बाहुसत्त्वम् बाहुपराक्रम
इत्यर्थः । तेन उत्कटै मत्तैः दुष्प्रधषैः । युद्धे प्रतिक्षणं वर्धमानबलै
रिति भावः । 'मत्ते शौण्डोत्कटक्षीबाः' इत्यमरः । (तथाविधैः)
कम्पनरेन्द्रस्य कम्पनप्रभोः भटै योधैः । कर्तृभिः । पराभूता परा
जिता निर्जिता । 'रणे भङ्गः पराजयः । पराजितपराभूतौ' इत्य
मरः । तथाविधा सती । पलायत परायत अन्तरधात् युद्धभूमि
परित्यज्यान्यत्र गतेत्यर्थः । आपत्काले नास्ति मर्यादेति न्यायादिति
 
भीताः पर
 
भाव: । " इष्यति नश्यति पलायतेऽन्तर्धत्त इत्यपि " इति भट्टमल्लः ।
परेत्युपसर्गपूर्वादयतेर्लङ् । 'उपसर्गस्यायता' विति रो लः । तृणी
कृतप्राणेभ्यस्सोत्साहं युध्यमानेभ्यः कम्पनसैन्येभ्योऽतीव भीताः
सेनाः पराङ्मुखास्स्त्र प्राण रक्षणैकपरायणा आसन्निति सारांशः । अत्र
भुजबलोत्कटैरित्येतद्विशेषणत्या शात्रवपराजये हेतुरिति काव्यलिङ्ग
मलङ्कारः ॥