This page has not been fully proofread.

मधुराविजये
 
स्थासा' मित्याधारस्य कर्मत्वम् । तस्मिन् अधिरुह्येत्यर्थः । वीरै
छिन्नाः राशीभूतास्तत्रत्याः करिकराः पर्वता इवात्यन्तं समुन्नतास्तत्र
वर्तन्त इति तेषां प्रासादाग्रत्वरूपणं युज्यत इत्यवगन्तव्यम् । तादृशा
स्सन्तः । कबन्धानाम् कृत्तशिरस्कदेहानाम् स्वसमीपं प्राप्तानामित्यर्थः ।
हाच्छिरस्त्रोटनेन समुत्पत्य समुत्पत्य तदुपर्यधःपतनं कबन्धानां स्वभाव
इत्येवमुच्यते । तेषाम् । रक्तम् असृक् लोहितम् । मद्यमिवेत्यर्थः ।
तत् कर्म । अत्र ' नक्तम् ' इति त्वपपाठः । चमत्क्रियया सह सच
मत्क्रियम् सविस्मयम् । तादृशपानीयस्य कदाप्यनास्वादितपूर्वत्वदिति
भावः । सकौशलमिति वा । वीराणां हस्तलाघवातिशयेन छिन्ना:
कबन्धास्त्वरिततरमुपर्युपरि स्वसमीपमुपयान्तीति तद्रक्तपानस्यातीव दुष्कर
स्वेऽपि तास्तत्र भृशं निपुणा भूत्वा पिबन्त्यतित्वरितं तन्निरवशेषेण
श्रममन्तरैवेत्येवमुच्यते । आद्रियन्त सबहुमानमासेवन्त सादरमपिबन्नि
त्यर्थः । अनेन मद्यपानस्थानीयतास्य गम्यते । अतएव 'नक्तंचरस्त्रिय'
इत्युक्तम् । लज्जावतीनां स्त्रीणामेव प्रियरञ्जनाय मद्यपानस्यात्यन्त
मावश्यकतेति यथादरस्तासां तस्मिन्, रक्तपानेऽस्मिन्नपि तथैव महा
नादर इति वेदितव्यम् । आङ्पूर्वात् दृङ् आदरे - लङ् । रूपक
मलङ्कारः ॥
 
256
 
वीराः कुञ्जरकुम्भेषु शायिनश्शत्रुसायकैः ।
 
प्राबुध्यन्त सुरस्त्रीणां कुचकुम्भेषु तत्क्षणात् ॥ ॥6॥
 
वीरा इति ॥ वीराः शूराः । शत्रुसायकैः वैरिप्रयुक्तैः बाणैः
करणभूतैः । कुञ्जरकुम्भेषु गजशिरस्तलेषु । अवश्यं शेरत इत्या
वश्यके णिनिः । तत्र गाढ़ प्रसुप्ताः मृता इति यावत् । तादृशस्सन्तः ।
सुरस्त्रीणाम् देवकन्यानाम् अप्सरस्त्रियामिति यावत् । प्राबुध्यन्त
अजागरन् प्रबुद्धा अभवन् तत्र संक्रीडन्त इत्यर्थः । यत्र निद्रान्ति
तत्रैव जागरणस्य समुचितत्वादुभयत्र कुम्भग्रहणम् । गजारोहका