This page has not been fully proofread.

46)
 
मानिति
 
"
 
चतुर्थसर्गः
 
इति ॥
 
क्षतजार्द्राः प्रवीराणां प्रेङ्खन्त्यः खङ्गलेखिकाः ।
जिघत्सतः कृतान्तस्य जिह्वा इव विरेजिरे ॥ ॥ 57॥
 
253
 
क्षतजेति ॥ प्रकृष्टा: वीरा: प्रवीराः वीरवराः । प्रादिसमासः ।
तेषाम् । क्षतात् व्रणात् जायत इति क्षतज़म् रुधिरम् । रुधिरे
ऽसृग्लोहितास्ररक्तक्षतजशोणितम् ' इत्यमरः । पञ्चम्यामजातौ ' इति
जनेर्ड: । तेन आर्द्राः सिक्ताः शात्रवकण्ठच्छेदादिना तद्रुधिरनिमग्ना
इत्यर्थ: । एतेन लौहित्यं भयंकरत्वं च खड्ग षु बोध्यते । प्रेङ्खन्त्यः चल
न्त्यः । "चलने चलति प्रेत्येवं ह्मलति घट्टति" इति भट्टमल्लः ।
लेखा एव लेखिकाः पङ्क्तयः । स्वर्थे कः । ' प्रत्ययस्था ' दित्तीत्त्वम् ।
खजानाम् लेखिकाः खड्गलेखिकाः खड्गपरम्पराः युद्धेषु शात्रववधाय
समुत्सहतां योधानां हस्तेषु खेलन्त्य इत्यर्थः । ताः । अत्तुमिच्छन्
जिघत्सन् बुभुक्षावान् । तस्य । अदेस्सन्नन्ताल्लटरशता । 'लुड्सनो '
रिति घस् । कृतान्तस्य यमस्य मृत्युदेवताया इत्यर्थ । 'कृतान्तो
यमुनाभ्राता शमनो यमराडयमः ' इत्यमरः । जिह्वाः दीर्घा लोहिता
भयंकराश्चञ्चला इति गम्यते । ता इव । विरेजिरे प्रचकाशिरे ।
राजू दीप्तौ लिट् । एत्वाभ्यास लोपौ । शातववधाय हस्ततलेषु वीरैः
परिगृहीतास्सोत्साहं संचाल्यमाना दीर्घतमा भयंकराकारा खड्ग
श्रेणयः क्षुधापीडितायाः मृत्युदेवतायास्सोत्कण्ठं भक्षितुं प्रवृत्तायाः
लोहितवर्णा भयंकराकारा दीर्घतमाश्चलन्त्यो जिह्वा इति संभाव्यन्ते ।
अतस्स्वरूपोत्प्रेक्षेयम् ॥
 
(
 
"
 
आस्त्रोति ॥ परितः समन्ततः युद्धभूमौ सर्ववेत्यर्थः ।
 
आत्रापगासु परितो निस्स्सु सहस्रशः ।
 
11
 
भटानां भल्लनिर्लने रम्भोजायितमाननैः ॥ ॥ 58 m
 
समन्त