This page has not been fully proofread.

मधुराविजये
 
"
 

 
संग्रामेति ॥ धरन्तीति धराः । पचाद्यच् । धनुषाम् धराः
धनुर्धरा: धानुष्काः तैः । मिथ: अन्योन्यम् परस्परं लक्ष्मीकृत्ये
त्यर्थः । मुक्ता: विसृष्टाः प्रयुक्ताः । शातम् तीक्ष्णम् मुखम् अग्र
भागः येषां ते तथोक्ता: निशिताग्राः इत्यर्थः । अनेन कटाक्षाणा
मुपमेयभूतानां कान्तिमत्त्वं द्योत्यते । शो तनूकरणे क्तः । शराः
बाणा: । कर्तारः । संग्राम एव देवता युद्धाधिदेवता तस्याः अपाङ्ग
विभ्रमाः कटाक्षविलासा: सविलासकटाक्षा इत्यर्थः । तेषाम् भ्रान्तिः
भ्रमः शराणां कटाक्षाणां च साम्यस्य कविसमयसिद्धत्वात्त एवैत
इति मिथ्यामतिरित्यर्थः । भ्रान्तिमिथ्यामतिर्त्रमः' इत्यमरः । ताम्
दातुं शीलमेषामिति ताच्छील्ये णिनिः । युगागमः । तादृशास्सन्तः ।
पेतुः तेषु न्यपतन् प्रासरन्निति च । पत्ल गतौ लिट् । एत्वाभ्यास
लोपौ । सोत्साहं युध्यमानानां शूराणां विजयलक्ष्मी प्रदातुं साव
मर्श विलोकयन्त्यास्संग्रामदेवतायाः कन्तिमन्तः कटाक्षाः किमेत इति
धीस्तत्र पश्यतां जनानां समुत्पन्नेति भावः । शराणां शातमुखा इति
विशेषणं संग्रामदेवतायाः दीर्घालोचनापरत्वेन तदीयकटाक्षाणां साव
धानप्रसरत्वभवगमयति । तेन वीराणां तारतम्यपरीक्षायां न्यूनताधिक्य
निर्णयोऽतीव दुर्ग्रहो वर्तत इति द्योत्यते । तेन च योधानां तृणाय
मत्वा प्रणान् युध्यमानानां पराक्रमी रुषसाहसादयो गुणा निस्तुला
इति व्यज्यते । विजयलालसेसु शूरवतंसेषु तेषु शातमुखा अपि
शरा नैव व्यथां जनयामासुरिति तात्पर्यार्थः । अत्र शातमुखेषु शरेषु
संग्रामदेवतापाङ्गविलासभ्रान्तिरियं सादृश्यहेतुका चमत्कारजनकतयानू
दितेति भ्रान्तिमानलङ्कारः । वस्तुतो भ्रान्तिमात्रस्यैवालङ्कारत्वम् ।
भ्रान्तिमानिति व्यवहारस्त्वस्मिन्नौपचारिकः । यदाहुः प्रामाणिका:
'प्रमात्रन्तरधीर्भ्रान्तिरूपा यस्मिन्ननूद्यते । स भ्रान्तिमानिति ख्यातो
ऽलङ्कारेत्वौपचारिक: " इति ।
इति । लक्षणं त्वस्याः - "चमत्कृतिमती
भ्रान्तिर्यस्मिन् सादृश्यहेतुका । अनूदिता स्यात्सन्दर्भे तमाहुर्भ्रान्ति
 
252
 
66