This page has not been fully proofread.

चतुर्थ सर्गः
 
नादानामत्यन्तभीतिजनकत्वेन
 
वीराणामुत्साहातिशयश्चं ध्वन्यते ।
 
युद्धेषु वर्ण्यमानानिं निर्दिशन् देवेश:- " युद्धे तु वर्मबलचाररजांसि
तु
तूर्यनिस्वाननादशरमण्डपरक्तनद्यः । छिन्नातपत्ररथचामरकेतुकुम्भीमुक्ता
 
स्सुरीवृतभटास्सुरपुष्पवृष्टिः" इति व्याचष्ट । एतानि प्रायशस्तत्र तत्र
वर्णयामास कवयित्रीयम् ॥
 
251
 
रजस्तमसि वीरास्त्र सङ्घसङ्घनोत्थितैः ।
 
बभ्रे स्फुलिङ्गसङ्घातैः खद्योतनिवहद्युतिः ॥ 11551!
 
रज इति ॥ रजसः तमः रजस्तमः । जन्यजनकभावे षष्ठी।
रजस्समुद्भुतं तम इत्यर्थः । तस्मिन् । वीराणाम् शूराणाम् अस्त्राणि
आयुधानि तत्प्रयुक्तशस्त्राणीत्यर्थः । तेषाम् संघ: समूह: परम्परा ।
तैः संघट्टनम् संमर्दनम् अन्योन्यसंघर्षणम् तस्मात् उत्थितैः उत्पन्नैः
बहिरुद्गतैः तथोक्तैः । स्फुलिङ्गा: अग्निकणः तेषाम् संघाताः ।
समूहाः। तैः कर्तृभिः । खं द्योतयन्ति खद्योताः । ज्योतिरिङ्गणाः ।
कर्मण्यण् । 'खद्योतो ज्योतिरिङ्गणः' इत्यमरः । तेषाम् निवहः
सङ्घः तस्य द्युतिः कान्ति: तत्सदृशी कान्तिरित्यर्थः । बभ्रे दधे ।
भृञ् भरणे कर्मणि लिट् । सेनासमुत्थितेन रजसा गाढान्धकारे
दृष्टिपथं निरुन्धति, योधप्रयुक्तपरस्परास्त्रसङ्घर्षणवशादुत्पन्ना स्तत्स्फुं
लिङ्गाः युद्धभूमौ तत्र तत्र खद्योतप्रभापूरा इव तदानीं विराज
माना: वीराणां परस्परदर्शने समुपाकुर्वन्निति तात्पर्यार्थः ।
खद्योतद्युतिनिवहस्य स्फुलिङ्गेष्वसंभवेन तत्सदृशद्युते राक्षेप इति पदार्थ
निदर्शना । तल्लक्षणं तु " असंभवद्धर्मयोगादुपमानोपमेययोः । प्रति
बिम्बकिया गया यंत्र सा स्यान्निदर्शना" इति ॥
 
अत्र
 
संग्रामदेवतापाङ्ग विभ्रमभ्रान्तिदायिनः ।
मिथो धनुर्धरैर्मुक्ताः पेतुश्शांतमुखाइशराः ॥ ॥ 5 ॥