This page has not been fully proofread.

मधुराविजये
 
सज़ातीयैस्साकं तुमुलयुद्धम् महता संरम्भेण संवितिभावः । तदाती
न्तन चरित्र मर्यादापरिपालने दतचितथा कविया वलय चतुरङ्गत्वेऽपि
रथा अन न गृहीता इत्यवगन्तव्यम् ॥
 
उभयोस्सेनयोस्संहत्य प्रवृत्तं महायुद्धं प्रस्तौत्यष्टभिरश्लोकैः
 
असह्य स्तत्र वीराणां सिंहनादविजृम्भितैः ।
दिगन्तदन्तिनो मुक्त फीट्कारं मुमुहुर्मुहुः ॥
 
250
 
॥4॥
 
असह्यं रिति ॥ तत्र तस्मिन् युद्धे । सोढुमहँ: सह्यैः । शकि
 
'
 
सहोवे' ति यत् । न सह्यैः असह्यै दुस्सहै भयंकरैरित्यर्थः ।
 
.
 
"
 
}
 
,
 
वीराणाम् सुभटानाम् । कर्तरि षष्ठी । तत्कृता इत्यर्थः ।
रसविशेषे स्यादुत्तरे सुभटे त्रिषु इत्यमरः । सिंहनादाः क्ष्वेडा: वीर
'वीरो
गर्जितानि । सिंहगजितानीति च गम्यते । ' क्ष्वेडा तु सिंहनादस्स्यात्
इत्यमरः । तेषाम् विजृम्भणै: विशेषप्रकाशनै: प्रस्फुटैस्सिहनादै रित्यर्थः ।
हेतौ तृतीया । तैः कारणभूतैः । दिगन्तदन्तिन: दिग्गजा: अष्टावपी
त्यर्थः । मुहुः पुनः पुनः असकृत् नत्वेकवारमिति भयोत्कर्षसूच्यते ।
'मुहुः पुनः पुनश्शश्वदभीक्ष्णमसकृत्समा: ' इत्यमरः । मुक्ताः त्यक्ताः
विसृष्टा: पीट्काराः आर्तनादा: यस्मिन् कर्मणि यथा भवति
तथेति क्रियाविशेषणम् । दुःखेन कृतफीट्फीडित्येवं ध्वनयस्सन्त
इत्यर्थः । ग़जानां भयजनितो ध्वनिः ' फीट्कार' इत्युच्यते । तथा
च चम्पूरामायणम्
" रवः कठिनकर्षणत्रुटितचापजन्मा क्षणात्
दिशां द्विरदफीट्कृतैः कृतरित्पतिस्वागत: " इति । मुमुहुः अमुह्यन् ।
भयातिशयेन चित्तवैकल्यमापुरित्यर्थः । मुह वैचित्त्ये लिट् । सिंह
नादश्रवणेन दिग्गजमोहनमिदं केवलकविप्रौढोक्तिसिद्धमित्यतिशयोक्तिः ।
अत्र सिंहनादेषु सिंहगर्जत भ्रान्तिस्तेषामासीदिति सिंहनादशब्दशक्ति
मूलो भ्रान्तिमान् व्यज्यते । दिग्गजा अपि मुमुहुरित्यनेन सिंह
 
-
 
-
 
-