This page has not been fully proofread.

चतुर्थ सर्गः
 
हतिक्षुभितसमुद्रद्वयसाम्यमभजदित्युपमार्थः । द्रमिडाः कर्णाटाच द्रमिड
कर्णाटाः तदाख्या देशाः तेषाम् नाधौ प्रभू तयोः द्रविडाधिपस्य
चम्पस्य कर्णाटाधिपस्य कम्पनस्य चेत्यर्थः । व्यूहौ बलविन्यासौ ।
' व्यूहस्स्याद्वलविन्यासे निर्माण बृन्दतर्कयो: ' इति विश्वः । संनिपे
ततुः समगच्छताम् । संनिपूर्वात् पत्ऌ गतौ इत्यस्माल्लिट् । एत्वाभ्यास
लोपौ । विरचितव्यूहे ते बले योद्धुकामनया लोकोपद्रवकारिणौ भयं
करौ समुद्राविव सोत्साहमन्योन्यं संगते अभूतामिति तात्पर्यार्थ: ॥
 
सजातीयप्रतिद्वन्द्वि युद्धं वर्ण्यते –
 
पादातप्राप्तपादातं हास्तिकाक्रान्तहास्तिकम् ।
आश्वीयमिलिताश्वीय मासीदायोधनं तयोः ॥ ॥ 5 ॥
 
249
 
,
 
"
 
पादातेति ॥ तयोः उभयसेनयोः आयोधनम् युद्धम् । कर्तृ ।
युद्धमायोधनं जन्यम् ' इत्यमरः । पादाभ्याम् अतन्ति गच्छन्तीति
पदातयः भटाः योद्धारः तेषाम् समूहः पादातम् । ' अज्यतिभ्यां
पादे च इत्यौणादिक इण् । ' पादस्य पदाज्यातिगोपहतेषु ' इति
यथा तथा युद्धाय समुप
पादस्य पत् । तेन प्राप्तम् अभिमुखं
'
स्थितम् पादातम् यस्मिन् तत्तथोक्तम् । अथ पादातं पत्तिसंहतिः '
इत्यमरः । ' भिक्षादिभ्योऽण् ' इति सामुहिकोऽण् । तथाभूतम् ।
किञ्च । हस्तिनां समूहः हास्तिकम् । 'हास्तिकं गजताबृन्दे' इत्यमरः ।
'अचित्तहस्तिधेनो' रिति ठक् । तेन आक्रान्तम् संनिरुद्धम् अभि
यातम् हास्तिकम् यस्मिन् तथोक्तम् । तथाभूतम् । किञ्च । अश्वानां
समूहः अश्वीयम् । तदेव आश्वीयम् । प्रज्ञादित्वादण् । तेन मिलितम्
युद्धाय संगतम् अश्वीयम् यस्मिन् तथोक्तम् । 'बृन्दे चाश्वीयमश्व
वत् ' इत्यमरः । ' केशाश्वाभ्याम् यञ्छावन्यतरस्याम्
तथाविधम् । आसीत् अभवत् प्रावर्ततेत्यर्थः ।
 
इति छः ।
 
तत्र
 
सजातीयानां