This page has not been fully proofread.

248
 
मधुराविजये
 
अथेति ॥ अथ अनन्तरम्
 
तत्र सेनानिवेशनसमनन्तरकाल
सोनाया वा ' इति
 
(
 
इति । संनद्धो वर्मितस्सज्जो
 
इत्यर्थः । सेनां समवयन्ति सैन्याः सैनिकाः ।
ण्यः । सन्नद्धाः वर्मिता: वृतकवचाः सैन्याः यस्य तथोक्तः । तादृक्
कम्पराज इत्यर्थः । कृतसेनाव्यूहादिसन्नाह इति भावः । ' सेनायां
समवेता ये सैन्यास्ते सैनिकाच ते '
दंशितो व्यूढकङ्कटः इति चामरः ।
अघनम घनम् कृतम् घनी
कृतम् निबिडीकृतम् । अभूततद्भावे च्विः । 'अस्य च्वौ च ' इती
त्त्वम् । तादृशम् हिमानीकम् तुषारसंहतिः हिमानी महद्धिममित्यर्थः ।
तत् येन तथोक्तः । तादृक् । हिमशिलासंघसंछादितस्त्रमूर्तित्वेन दुर्भेद
स्सन्निति भावः । सभ्यग्विनिहितहिमसैन्य इति गम्यते । हेमन्तः तन्नामा
ऋतुः राजेति गम्यते । भास्करम् सूर्यमिव । कस्कादित्वात्सः । प्रति
राजमिति गम्यते । द्रमिडानाम् तदाख्यानां जनपदानाम् अधिपम् राजा
नम् चम्पराज़मित्यर्थः। 'द्रामिडो द्रमिडवापि द्रविडो द्राविडस्तथा ।
इति श्रीहर्षः । न्यरुन्ध अरुणत् तमभिययौ ससैन्य इत्यर्थः । रुधिर्
आवरणे – लङ् । हेमन्तत हिमसमाच्छादितो भास्करस्स्वदीप्तिमावि
कर्तु यथा वा न प्रभवति तथायमपि चम्पराज़: कम्पराजेन ससैन्येन
समावृतो न रराजेत्युपमार्थः ॥
 
9
 
उभयोरपि सेनयोस्संप्रवृत्तं संकुलबुद्धं वर्णयितुं प्रकपते -
 
-
 
संवर्तमारुताक्षिप्त समुद्रद्वयसंनिभौ ।
 
व्यूहौ द्रमिडकर्णाट नाथयोस्संनिपेततुः ॥ 115211
 
संवर्तेति ॥ संवर्तः प्रलयः तम्मिन् मारुत: तत्कालप्रवृत्तः
प्रचण्डतरो वायुः तेन आक्षिप्तम् तरङ्गघट्टनादिभिस्समधिगत महाध्वान
मित्यर्थः । तादृशम् समुद्रद्वयम् द्वौ समुद्रौ। द्वित्रिभ्यां तयस्यायज्वा
इति द्विशब्दात्तयपोऽयच् । तेन तुल्यौ तथोक्तौ । वीरगजितकरिबृंहित
तुरङ्गहेषादिभिर्घोघुष्यमाणं सैन्यद्वयं लोकभयंकरं सत् प्रलयोत्थ वाता
 
(
 
7