This page has not been fully proofread.

चतुर्थसर्गः
 
247
 
'
 
इति तदीय कीर्तेर्महान् कलङ्कोऽद्य संजात इति भावः । इणो लुङि — इणो
गा लुङी ' ति गाङादेशः । अत्र सैन्यरजसा क्षीरनदीव चम्पराजकीर्ति
रपीति कम्पराजोत्कर्ष कथनात्स होक्तिरलङ्कारः । तल्लक्षणं तु "गुण
प्रधानतो भाजोरर्थयोरुभयोर्यंदा वर्ण्यस्सहार्थसंबन्धस्सहोक्ति तां तदा
 
-
 
विदुः इति ॥
 
"
 
"
 
उचित प्रदेशे सेनानिवेशं कथयति
 
-
 
स दुग्धवाहिनीवीचि मारुताधूतशाखिनि ।
विरिश्चिनगराभ्य न्यवेशयदनीकिनीम् ॥
 
115011
 
विरिञ्चि
 
स इति । सः राजा दुग्धवाहिनी क्षीरनदी । तस्य :
वीचयः तरङ्गाः तेभ्य: मारुतः वायुः तदुत्पन्नो वायुरित्यर्थः । तेन
आधूता: ईषच्चलिता: शाखिन: तीरस्था' वृक्षाः यस्मिन् तस्मिन् । अनेन
प्रदेशोऽयमत्यन्तसुखावह इति सेनानिवासस्य समुचितत्वं सूच्यते ।
विरिञ्चि' इति नगरम् विरिश्चिनगरम् । रम्भार्थं ब्रह्मणा विशिष्य
निर्मितत्वात्तदाख्यया जगद्विदितं पत्तनम् । तथा चागमः
नाम नगरी रम्भार्थं ब्रह्मणा कृता । पुरा रम्भा हरं
स्यातिप्रियाऽभवत् " इति । तस्य अभ्यर्णे समीपे अदूरत
' उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अभितोऽव्ययम् ' इत्यमरः । अनी कि
नीम् स्वसेनाम् । ' अनीकिनी सेनामात्रसेनाविशेषयोः ' इति मेदिनी ।
न्यवेशयत् अस्थापयत् कृतशिबिरावासामकरोदित्यर्थः । जलफलतृणादि
समृद्धिमतीं तां भूमि युद्धाय समुचितां निश्चित्य तत्र ससैन्योऽवसदिति
तात्पर्यार्थः ॥
 
पूज्य शऋ
इत्यर्थ: ।
 
अभियानं वर्णयति
 
अथ सन्नद्धसैन्यस्तं न्यरुन्ध द्रमिडाधिपम् ।
घनीकृत हिमानीको हेमन्त इव भास्करम् ॥ ॥51॥
 
"