This page has not been fully proofread.

45)
 
चतुर्थ सर्गः
 
अतएव रामायणे-
महान्ति च निमित्तानि दिवि भूमौ च राघव ।
 
शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये । अनुवाति शुभो वायुस्सेना
मृदुहितश्शुभः " इत्यादि वर्णितम् ॥
 
नायकस्य दक्षिणदेशप्रवेशं वर्णयति
 
66
 
अथ लङ्घितकर्णाटः पञ्चषैरेव वासरैः ।
प्रापत्कम्पमहीपाल: कण्टकाननपट्टनम् ॥
 
(
 
245.
 
अथेति ॥ अथ अनन्तरम् स्वविजयसूचकशुभशकुनदर्शनोत्तर
काल इत्यर्थः । कम्पमहीपाल: कम्पनप्रभुः । पञ्चषैः पञ्च वा षड्वा
पञ्चषाः। तैः। संख्ययाव्ययासन्ने ' त्यादिना समासः । वासरैः दिनैः
 
1147 11
 
,
 
पञ्चभिर्वा षड्भिर्वा दिनैः अतित्वरितमिति यावत् । 'घस्रो दिना
हनी वा तु क्लीबे दिवसवासरी इत्यमरः । लता: अतिक्रान्ताः
कर्णाटा: तदाख्या जनपदा : येन तथोक्तः । कर्णाटदेशमतिक्रान्तस्सन्नि
त्यर्थ: । कण्टकाननम् तदाख्यम् 'मुल्बादाबाग्' इति देशभाषायां
प्रसिद्धमिदमिति वदन्ति । ( तादृक् ) पट्टनम् पत्तनम् नगरम् ।
प्राकृते पट्टणम् । संस्कृते पत्तनं च नगराभिधायके वर्तते । तथापि
पट्टनशब्दस्संस्कृतभाषायां न विरुद्धः । यथाह वाचस्पतिः
 
पट्टनं पुटभेदनम् ' बाहुलकात्पटेरतनन् ।" इति । अवत्योऽनुप्रास:
विस्पष्टमेवंविध एवायमिति निश्चित्य प्रवति ॥
 
काञ्चीपुरसमाक्रमणं पुरतो वर्णयितुकामा तदर्थं सन्नाहं वर्णयति-
स तत्र दिवसान्कांश्चि दतिवाह्य महाबलः ।
अभिषेणयितुं चम्प मुपाक्रमत कालवित ॥
 
114811
 
स तत्रेति ॥ कालं वेत्तीति कालवित् समयज्ञः । चारादिभिः
परच्छिद्राणि सुष्ठु विज्ञाय स्वविजयानुकूलं समयम् सम्यक् ज्ञाते