मधुराविजयम् /38
This page has not been fully proofread.
7
दासः । अत्र कथितास्त्रयो लोकपालाः । चतुर्थस्तु सूर्यभगवान् ।
यमकपरिपोषणाय समानीत इव भगवानयं सूर्य: । एतमेवार्थमक्लिष्ट
श्लेषचमत्कृत्या रमणीयार्थप्रतिपादकतया च निरुक्त्या वर्णयत्यर्थगाम्भी
र्येण वृत्तमपि संक्षिप्य कवयित्रीयं बुक्कराजम् । जिष्णुना भुवने
'
(
शेन श्रीदेन समवर्तिना । सान्निध्यं लोकपालानां धरणौ येन दर्शि
तम् ' " इति । इत्थमेव "तं सन्तश्श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः ।
हेम्नस्संलक्ष्यते ह्यग्नौ विशुद्धिश्श्यामिकाऽपि वा " इति स्वविनयं
प्रदर्शयति कालिदासोऽयम् । इयं तु कवयित्री काव्यप्रयोजनान्यभि
घाय "न प्रार्थनीयस्तत्काव्यश्रुत्यै सहृदयो जनः । स्वादुपुष्परसा
स्वादे क प्रेरयति षट्पदम् ' इति सहृदयमनुशास्ति सरसकाव्या
न्वेषकेन भवितव्यं भवतेति न रत्नमन्विष्यति मृग्यते हि तत्
इति न्यायेन स्वोदात्ततां परिपोषयन्ती । एवमेव वसन्ततु वर्णनादावपि ।
व्याख्यायां प्रदर्शितेयं तारतम्यपरीक्षेति न तद्विस्तराय पुनः प्रय
तिष्ये । सूर्यास्तमयो भारविकविना वर्णितः । अनयापि
प्रस्तुतः । वर्णनीयैक्येऽपि रञ्जकता विभिन्ना संवृत्ता ।
पाणिभिरतीव पिपासु पद्मजं मधु भृशं रसयित्वा ।
गतः क्षितिमेष्यन् लोहितं वपुरुवाह पतङ्गः
स एव
अंशु
सीबतामिव
(किरातार्जुनीयम्) ।
" कमलोदरसंभृतं करैर्मधु पीत्वा रविरुज्झिताम्बरः स्पृशति स्म
दिशं प्रचेतसो न मदः कस्य विकारकारणम्
मदः कस्य विकारकारणम् " ( मधुराविजयम् ) ।
मद्यपायिनस्स्वरूपस्वभावौ कवयित्र्या वर्णने समग्रतामवापन् । अर्था
न्तरन्यासश्चैतस्य समुचिततया परिपोषकस्संवृत्तः । श्लेषश्चास्य जीवातु
स्संवृत्तः । माधुर्यगुणश्च रीतिपरिपोषक: परां शोभां व्यतनोदस्य ।
एवमेव माघः कविराजोऽप्येकत्र हंसकूजितानि प्रस्तौति । " श्रुतिपथ
मधुराणि सारवानामनुनदि शुश्रुविरे रुतानि ताभिः । विदधति जनता
मनश्शरव्यव्यथपटुमन्मथचापशङ्काम् "। " गङ्गादेव्यप्येतानि प्रकथयति
- " सरसिजाकर संवरदिन्दिराचरणहंसकनिकवणमन्थरः । मदनमङ्गल
61