This page has not been fully proofread.

चतुर्थ सर्गः
 
वार्थ: । ल्यब्लोपे पञ्चमी । ( तथा ) प्रस्थातुम् प्रयातुम् दक्षिण दिशा
मार्गेण गन्तुम् । आरेभे उपाक्रमत । अपूर्वा । एत्वाभ्यास
लोपौ । सैन्यैस्सोत्साहैरशत्रुवधाय कम्पराजः प्रययाविति सारांश: ॥
 
करिणां मदातिशय: कथ्यते
 
"
 
तुरङ्गखुरकुद्दाल दलितादपि भूतलात् ।
न पुनः पांसुरुत्तस्थौ महेभमदवृष्टिभिः ॥ ॥ 5 ॥
तुरङ्गेति ॥ तुरङ्गाणाम् अश्वानाम् खुराः शफानि । 'शफं
क्लीबे खुर: पुमान्' इत्यमरः । त एव कुद्दाला: भूमिदारणानि
'. कुद्दालस्स्यात्पुमान् भूमिदारणे युगपत्नके ' इति सुधा । तैः । करणैः ।
दलितात् विदारितात् । अपि विरोधे । एवं विधप्रबलकारणे सत्य
पीत्यर्थः । भूतलात् भूमे। पांसुः पुनः रजस्तु । कर्तृ । महान्तः
इभा: महेभा: भद्रादिजात्युत्तममदगजाः इत्यर्थः । इभ स्तम्बेरमः
पद्म' इति गजपर्यायेष्वमर' । 'सन्महत्परमे ' ति समासः । तेषाम्
मदा: दानाम्बूनि मदस्रावा इत्यर्थः । त एव वृष्टयः वर्षाः । अवि
च्छिन्नप्रस्रावित्वादेवमुक्तिः । ताभिः हेतुभूताभिः करणभूताभिर्वा । न
उत्तस्थौ न उच्चचाल ऊर्ध्वगा न बभूवेत्यर्थः । परागस्नानं दन्तिनां
मदहेतुरिति तत्संजातमदप्रवाहा दन्तिन: महान्तमपि रजोराशिमवि
च्छिन्नस्वदानाम्बुप्रवाहैः पङ्कतामनयन्निति भावः । उत्पूर्वात्तिष्ठतेः
लिट् ।
अत्र भूतलविदारणरूपकारणसत्त्वेपि कार्यस्य रजसो भूमेरनु
त्पत्तिरिति विभावनालङ्कारः । स च 'मदवृष्टिभि' रित्यादिरूपकानु
प्राणित इति सङ्करः । विभावनायाः लक्षणं तु " विभावना विनापि
स्यात्कारणं कार्यजन्म चेत् " इति ॥
 
लोकरक्षणे समुद्यतस्यास्य देवा अप्युपकुर्वन्तीवेति प्रस्तौति
 
-
 
248
 
-