This page has not been fully proofread.

मधुराविजये
 
ऊर्ध्वं प्रापिता । रजसः राजिः परागपङ्क्तिः धूलिराशिरिति यावत् ।
 
सा
 
कर्म ।
 
करशीकरा: शुण्डाजलकणाः त एव दुर्दिनानि मेघा
। 'मेघच्छन्नेऽह्नि दुर्दिनम्' इत्यमरः । तैः (मेघ)
अयुर्वे घृतमितिव' दौपचारिक प्रयोगोऽस्य वृष्टौ ।
अन्येप्येवमेनं प्रयुञ्जते – "सीमन्तविद्युदवतंसशिरीषचापं कैश्यं घनोऽय
मिति कैस्सुदृशां न जज्ञे । तस्याधएव निटले सततं यदासीत्तत्ता
दृशी सलिलशीकरदुदिनश्री: " इत्यादि । तैः । अवार्यत आव्रियत
अन्तर्धानमनायि । वृञ् आवरणे इति चुरादिण्यन्ता त्कर्मणि क्तः ।
गजानां कर्णचालनं स्वभावः। तच्चालनसमुत्थितो रेणुः तच्छीकर
रेव प्रशान्तेति निर्गलितोऽर्थः । करशीकरेषुत्वरूप
 
मलङ्कारः ॥
 
242
 
वृतदिवसानि
वृष्टिभिः ।
 
सेनाप्रस्थानं वर्ण्यते
 
अथ कल्पान्तसंभिन्न सप्ताम्भोनिधिसंनिभम् ।
क्रमात्प्रयातुमारेभे स्फारकोलाहलं बलम् ॥ ॥ 44
 
-
 
संभेदं
 
अथेति ॥ अथ अनन्तरम् एवं मदेभमदवृष्टिभिः र
प्रशान्ते इत्यर्थः। कल्पान्तः प्रलयकालः तस्मिन् संभिन्नम्
प्राप्तम् परस्परम् संमिलितमित्यर्थः । ' संभेदः स्फुटने सङ्गे' इति
सुधा । सप्तानाम् अम्भोनिधीनां समाहारः सप्ताम्भोनिधि सप्तसमुद्रा
इत्यर्थः । ' तद्धितार्थे ' ति समाहारः । ' स नपुंसक मिति नपुंस
कता च । तेन तुल्यम् तथोक्तम् । अतएव स्फारः विस्तृतः प्रवृद्धः

'
कोलाहल: कलक़ल: ( बहुभिः कृतो ) महाध्वनिः यस्मिन् । तथा
विधं सत् सोत्साहं सदित्यर्थः । बलम् सैन्यम् । क्रमात् क्रममनुसृत्य
गजसेना तदनन्तरं पदातयस्तदनन्तरमश्वसेना - इत्यादि स्वोद्दिष्ट
क्रममवलम्ब्येत्यर्थः । यद्वा । व्यूहरचनायां तदुद्दिष्टं क्रममालम्ब्येति