This page has not been fully proofread.

चतुर्थ सर्गः:
 
(मेघसंबन्धि ) नैपुणमित्यर्थः । (ताम् ) सेनारजसः सैन्योत्थितस्य
परागस्य वितेनिरे विदधिरे अकुर्वन् असृजन् परागे मेघस्य करका
कारचातुर्यं जनयामासुरित्यर्थः । तत्र रजःखण्डाः करिकरशीकरसंपर्केण
द्रुता: पिण्डीभूय नभसो मेघवृष्टकरकोपलवत्पतन्तीत्येवमुच्यते । यद्वा ।
सेनारजसः घनस्य इति व्यस्तरूपकम् । सेनारजोभूतस्य मेघस्ये
त्यर्थः । तस्य करकाणाम् आकारः तद्वद्रूपधारणम् तस्मिन् चातुरीम्
कौशलम् तद्विषयकनैपुणमित्यर्थः । परागस्य स्वाश्रयेण स्ववर्णमुत्पाद्य
वर्णान्तरसमुत्पादका भूत्वा तुस्य करकाकारधारणे करिकरशीकरा
स्स्वचातुर्यं प्रादर्शयन्निति भावः । परागस्याश्रयवर्णेन वर्णवत्त्वं च
प्रसिद्धम् यथाह माघः - "चमूरजः प्राप दिगन्तदन्तिनां महासुरस्या
-
भिसुरं प्रसर्पिणः । दन्तप्रकाण्डेषु सितेषु शुभ्रतां कुम्भेषु दानाम्बु
घनेषु पङ्कताम्" इति । अत्र परागस्य करका कारचातुरीसंजननं
प्रौढोक्तिसिद्धमेव केवलमित्यतिशयोक्तिः । सेनारजसः घनस्येति रूपक
मिति पक्षे रूपकोज्जीवितातिशयोक्तिरिति तयोस्सङ्करः ॥
 

 
करिणां मंदोदयो वर्ण्यते
 
ततस्सेनागजेन्द्राणां कर्णतालानिलोद्धता ।
अवार्यत रजोराजिः करशीकरदुदिनैः ॥
 
-
 
43
 
241
 
11
 
तत इति ॥ ततः अनन्तरम् परागव्याप्तेरुत्तरकाल इत्यर्थः ।
सेनागजेन्द्राणाम् – सेनायाः सैन्यस्य । अवयवावयिभावे षष्ठी । तदेक
देशानामित्यर्थः । ( तादृशानाम् ) गजेन्द्राणाम् गजश्रेष्ठाणाम् । कर्णावेव
तालौ तालपत्रे । 'तालः करतंलेऽङ्ग ष्ठमध्यमाञ्यां च सम्मिते । गीत
कालक्रियामाने करस्फाले द्रुमान्तरे' इति विश्वः । तास्थ्याल्लक्षणया
तालदले ।
अन्यथा 'तालमय ' मिति स्यात् । तालाद्धनुषी ' ति
गणसूत्रात् । तयोः अनिल: ताभ्यां जातोऽनिलः । तेन
 
उद्धता उत्क्षिप्ता