मधुराविजयम् /375
This page has not been fully proofread.
240
मधुराविजये
गम्यते । तस्य किरणा: रश्मयः ।
अतितृष्णया तत्पानमित्यर्थ ग्रसु
तेषां ग्रासः भक्षणम् कबलनम्
अदने भावे घन् । तस्मात्
तद्धेतोरित्यर्थः। परितप्तः संतप्त इवेत्युत्प्रेक्षा । अनेन सूर्यमण्डल
पर्यन्तं गत्वा तदभिव्याप्त्या तत्किरणाच्छादनं परागस्य व्यज्यते ।
इदं च व्यङ्ग्यमेतेन विना वाच्यार्थानुपपत्तेर्वाच्यसिद्ध्यङ्गमिति गुणीभूत
व्यङ्ग्यमेव । महान्तः संख्यया बहुला' अम्भोधयः समुद्राः सप्त समुद्रा
इत्यर्थः । तान् । अगाहत प्राविशत् । तेषु अन्तनिममज्जेत्यर्थः ।
यथा कश्चिदातपदाहप्रज्वलच्छरीरः पुमन तत्तापशान्तये अन्तनमज्जति
तत्रैव चिरं तिष्ठति तद्वदिति भावः । गाहू विलोडने लङ् । परा
गस्य महाम्भोधिनिमज्जने सूर्यकिरणग्रासत्वं हेतुतया कल्पितमिति
क्रियोत्प्रेक्षा । अनया समासोक्तिस्पतिरपि ॥
T.
दन्तिनां मदोदयमाचष्टे
-
"
वितेनिरे करेणूनां करशीकररेणवः ।
घनस्य सेनारजसः करकाक़ारचातुरीम् ॥ 11 42 (1
वितेनिर इति ॥ करेणूनम् करिणाम् ' करेणुरिभ्यां स्त्री
नेभे' इत्यमरः । करा: शुण्डा: 'करो वर्षोपले रश्मी पाणी प्रत्याय
शुण्डयो: ' इत्यमरः । तेषाम् शीकराः जलबिन्दवः । करीन्द्रः करेण
पीत्वा विनोदाय तेन समुत्क्षिप्ताः जलकणा इत्यर्थः । तेषाम् रेणवः
रेणुवत्सूक्ष्मतमाः अत्यल्पकणाः । कर्तारः । करिहस्ताग्रसंजातशीकराणा
मतिसूक्ष्मत्वं प्रसिद्धम् । वर्णितं च माघेन - " करेणुः प्रस्थितोऽनेको
।
रेणुर्घण्टास्सहस्रशः । करेऽणुश्शीकरो जज्ञे रेणुस्तेन शमं ययौ " इति ।
घनस्य मेघस्य । सान्द्रस्येति च गम्यते । करकाः वर्षोपलाः ।
वर्षोपलस्तु करका करकोऽपि च दृश्यते' इति सुधा । तेषाम् कारः
यत्नः व्यापारविशेषः वर्षणमिति यावत् । तत्र चातुरीम् तद्विषयकं