This page has not been fully proofread.

€236
 
मधुराविजये
 
अलघु: लघु: संपद्यमानो भवन् लघूभवन् अगुरुतया भवन् । अभूत
तद्भावे च्विः । 'च्वौ' चेति दीर्घः । च्व्यन्ताद्भवतेर्लटरशता ।
तस्मिन् रजोऽपगमनेन भूगौरवे न्यूनीकृते सतीत्यर्थः । पृतनाया
सेनायाः भारः भरः अतिशय: परिपूर्णता गुरुत्वकृतमाधिक्यमित्यर्थः ।
' ध्वजिनी वाहिनी सेना पृतनानीक़िनी चमूः' इत्यमरः । 'भारो
भरे विवर्धे च पलानां द्विसहस्रके' इति नानार्थ रत्नमाला । तम् ।
कथंचित् यथाकथमपि अतिश्रमेणेत्यर्थः । अनेन भूभारेऽपगतेऽपि
सेनाभरोऽयं भगवतोऽनन्तस्यापि प्रयासमेव जनयामासेति सेनोत्कर्षः
प्रस्तूयते । यथाकथमपीत्यनेन - शिरःकम्पशरीरवेपथुनिश्वासबहुलत्वा
दीन् करुणरसानुभावान् सहस्रशिरसि शेषेऽवगमय्य करुणरसः परि
पोष्यते । चक्षमे असहत । भूभारवहनादपि दुर्भरमभवदिदं सेनाभार
वहनमिति भावः । अत्र भूभारस्य रजोऽपगमनेन लाघवं वा तेन
हेतुना सेनावहनं वा सहस्रशिरसः केवलं कविप्रौढोक्तिसिद्धमित
शयोक्तिरलङ्कारः ॥
 
परागमेव वर्णयति
 
-
 
प्रतापादित्यकीर्तीन्दु युगपद्ग्रासलालसः ।
परागः परभूपाना मुपरागोऽभवन्नवः ॥
 
37
 
प्रतापेति ॥ पराग: सेनोत्थिता धूलि: ।
राजानाम् । प्रतापः पराक्रम परावज्ञासहनक्षमं तेज़ इत्यर्थः ।
परभूपानाम् शत्रु
एव आदित्य: सूर्य: । भूमि सौरं तेज इव शत्रून् प्रतपत्ययमित्येव
मुक्तिः । स च । कीतिरेव इन्दुः चन्द्रः । प्रसन्नत्वाज्जना ह्लादकत्वाच्चेति
भाव: । तयोः कर्मणि षष्ठी । तौ इत्यर्थः । युगपत् एकदा समकाल
एवेत्यर्थः । ग्रासः ग्रसनम् भक्षणम् ।
घञ् । तस्मिन् लालसः आसक्तः तदेकायत्तचित्त इत्यर्थः । तादृश
'ग्रसु (ग्लसु) अदने भावे