This page has not been fully proofread.

चतुर्थसर्गः
 
पुरतो गमयन् । स्वमग्रतः स्थित्वेत्यर्थः । पुरस्ताद्भवः पौरस्त्यः पुरतो
भवन्नित्यर्थः । ' पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्याः' इत्यमरः । 'दक्षिणा
पश्चा' दिति पुरसस्त्य । तथाविधस्सन् । पयोदानाम् माला पयोद
माला मेघपङ्क्तिः । ताम् । आकर्षन् अनुगमयन् । मारुतः वायुरिव ।
व्यरुचत् भृशमशोभत । वायुवेगमनुसृत्य यथाऽवशा ततः पश्चाद्गच्छन्ती
मेघमाला दर्शनीया भवति तथेयमपि सेना महता वेगेन कम्पराज
मग्रतः कृत्वा तद्वशे गच्छन्ती सर्वेषां नयनोत्सवमकरोदित्युपमार्थः ।
विपूर्वाद्रुच दीप्तावित्यस्माल्लुङ् । द्युतादित्वात्परस्मैपदम् । अङ् च । सोत्साहं
गच्छतस्सेना कम्पराजश्चेति सारांश: । सावयवा वाक्यार्थोपमेयम् ।
रघुवंशे कालिदासः - " स सेनां महतीं कर्षन् पूर्वसागरगामिनीम् ।
बभौ हरजटा भ्रष्टां गङ्गामिव भगीरथ: " इति रघोर्दण्डयात्रा
मवर्णयत् ॥
 
प्रस्थाने रजोभरोऽवश्यं वर्ण्य इति लक्षणविदः । तदद्य वर्ण्यते
सप्तभिश्श्लोकैः
 
-
 
4
 
285
 
रजोभिर्मुहुरुद्ध तै लघूभवति भूभरे ।
कथंचित्पृतना भारं चक्षमे फणिनाम्पतिः ॥
 
36 11
 
रजोभिरिति ॥ फणिनाम् पतिः
 
नागराज़:
 
आदिशेषः ।
 
तत्पुरुषे कृति बहुल ' मिति बाहुलकात् षष्ठया: अलुक् - अपां
पतिरित्यादाविव । मुहुः पुनः पुनः बहुवारमित्यर्थः । उद्धृतैः उत्क्षिप्तैः
ऊर्ध्वं गमितैः । सेनायाश्शीघ्रगमनेनेत्यर्थादाक्षिप्यते । एतावन्मात्रमपि
क्लेशमसहमानैः पूर्वमुद्रापकैः 'उद्भूतैः' इति पाठः कल्पितः ।
 
उद्भूतैः – संजातैः' सेनागमनादित्याथिकस्सम्बन्धस्तत्रापि सम इति
न कुलेशापनयनं तत्रोत्पश्यामः । ( तादृश:) रजोभिः परा: । हेतो
तृतीया । तै कारणभूतैः । भूभरे भुवो भारे आत्मना धृते इत्यर्थः ।