This page has not been fully proofread.


 
नायकस्य बाल्यवर्णनाद्यवसरे वर्षत्रयावधिकं तदिति । एतादृशी च
रीतिरियं तत्र तत्र दृश्यतेऽस्मिन् काव्यराजे । चरित्रांशाच काव्य

मर्यादया संगृहीता अत्रेति तत्न तत्र न्यरूपि मयाख्यायाम् । चरि
त्रांशाः काव्यवर्णनांशैस्सम्मिलिताः काव्यश्रवोऽस्या अपूर्वा श्रियमादधुः
काञ्चनसंवलिता रत्नश्रीरिव भूषणश्रियः । कि बहुना । काव्यमिद
मशेष महाकाव्यस्वर्गवण्डान् विद्राव्य सम्यगवण्डया स्वर्णलतिकया
ऋज्व्या विधाय स्वशिल्पकला नैपुणीमनितरसावारणीं प्रदर्शयता
शिल्पिवतंसेन केनचिदुपायनतया भाषादेव्यै समर्पितमेकमनर्थं महा
भूषणमद्वितीयमिति मन्यामहे । भट्टबाण इव महाकाव्यमिद
मुपाक्राम्यन्ती वस्तुनिर्देशे साम्यं संपादयतीयम् । 'आसीदशेष
नरपतिशिरस्समयचितशासन: पाकशासन इवापरो राजा शुद्रको
नाम ' इति ( कादम्बरी ) । 'आसीत्समस्त सामन्त मस्त कन्यस्तगासनः ।
बुक्कराज इति ख्यातो राजा हरिहरानुजः' इति ( मधुराविजयम्) ।
कादम्बर्यां शुकनासोपदेशमादर्श विधाय प्रवृत्तोऽस्मिन् बुक्कराजनीत्यु
पदेशः । तथापि दृष्टान्तै मृदुमधुरैरथंगम्भीरेण वाङ्मयेन च प्रवृत्तोऽय
मुपदेशोऽत्र हृदयरञ्जनेन स्वार्थबोधने नूतनं पन्थानामाश्रित्य शुक
नासोपदेशस्य कांचित्संस्क्रियामापादयतीव । "शृण्वन्तोऽपि गज़निमीलि
तेन अवधीरयन्तः खेदयन्ति हितोपदेशदायिनो गुरून्
( कादम्बरी ).
तदित्थं प्रकथ्यते मुहुः प्रसर्पन्मदमीलितेक्षणा: क्षणाधिरोह
द्रजसो मलीमसा: । गजा इव स्तम्भनिरुद्धचेतसः खला न गृह्णन्ति
नियन्तृचोदितम्
इति ( मधुरा 3 स. 23 श्लो, ), यस्य
संदर्भस्य यावान् संकोचो यावान्
यावान् वा विकास आवश्यक इत्य
नया यथा ज्ञायते न तथाऽन्यैः । कवितल्लजं कालिदासमनुकुर्वतीव
प्रदर्शितं कलानैपुणमतीव श्लाघ्यमस्या: । राजानं वर्णयत उभौ ।
तया वसुवृष्टिविसर्जनैनियमनादसतां च नराधिपः । अनुययौ यम
पुण्यञ्जनेश्वरी सवरुणावरुणाग्रसरं रुचा" इति दशरथं वर्णयति कालि
 
"
 
""
 
"
 
6
 
1
 
-
 
सम