This page has not been fully proofread.

चतुर्थ सर्गः
 
वाचाल इति हरदत्तः । तत्सादृश्याल्लक्षणया नित्यप्रभाष्यपि । तैः ।
चोलानां राजा चोल: । 'जनपदशब्दात्क्षत्त्रिया ' दित्यञः ' कम्बोजा
दिभ्यो लुग्वचनं चोलाद्यर्थम्' इति लुक् । केरलानां राजा केरलः
पाण्डूनां राजा पाण्ड्यः । ' पाण्डोर्डचण् वक्तव्य ' इति डचण् । द्वन्द्वः
चोरकेरलपाण्ड्याः । ते आद्या : आदौ भवाः येषां तैः तत्प्रभृतिभूपालैरि
त्यर्थः । कर्तृभिः । वेत्रित्वम् वेत्रधरत्वम् प्रतीहारित्वम् दौवारिककृत्यम्
'साहोनिनादित्वमित्यर्थः । वेत्रम् अस्यास्तीति वेत्री इन् । तस्य भावः
तत्त्वम् । द्वास्थितो वेत्रधारकः इति त्रिकाण्डशेषः । तत् प्रत्य
पद्यत अलम्भि अधारि । यवनराजेन राज्यान्निष्कासिता: कम्पराज़
शरणं गताचोरल केरलपाण्डयादयो राजानः एतदनुग्रहमाकाङ्क्षन्त
इदानीं वेत्रधरा भूत्वा मार्गमादिशन्तस्साहोनिनादैस्सेवन्त इति वैभ
वातिशयोऽस्य प्रस्तूयते । दौवारिककृत्यं प्रति मातृगुप्ताचार्या:
" सन्धिविग्रहसंबद्धं नानाकार्यसमुत्थितम् । निवेदयन्ति

प्रतीहार्यस्तु ताः स्मृताः ॥ इति । वैजयन्तीका रास्तु - " प्रतीहारी
 
निवेदयन्ति या: कार्यं
 
"
 
"
 
तु राजानं संभावयति या सदा इत्यहुः ॥
 
"
 
233
 
"
 
आचारलाजैः पौराणां पुरन्ध्रयस्तमवाक़िरन् ।
 
अम्भसां बिन्दुभिशुभ्रै रभ्रमाला इवाचलम् ॥ ॥ ॥
 
(
 
-
 
आचारेति ॥ पुरे भवा: पौरा: नगरस्था: अम्भसामित्युपमा
पवित्रशीलतामेष्ववगमयति । 'तत्र भव ' इत्यण् । तेषाम् । पुरन्ध्रचः
कुटुम्बिन्यः स्यात्तु कुटुम्बिनी पुरन्ध्री' इत्यमरः । कर्भ्यः । आचा
रार्थाः लाजाः अक्षताः मङ्गलाचरणप्रयोजनकानि अखण्डानि तण्डुलानी
त्यर्थः । ' लाजस्स्यादार्द्रतण्डुले नपुंसकमुशीरेऽथ स्त्रियां पुंभूम्नि चाक्षते
इति मेदिनी । तैः । करणभूतैः । अभ्रमालाः मेघपङ्क्तयः । शुभ्रः
धवलैः शुक्लवर्णैः । अम्भसाम् उदकानाम् बिन्दुभिः कृणै: वर्षोदक
बिन्दुभिरित्यर्थः। कणग्रहणमक्षतैस्साम्यं प्रतिपादयितुमित्यवगन्तव्यम् ।
 
"