This page has not been fully proofread.

232
 
मधुराविजये
 
तमञ्जलिभिरानम्र किरीटतलकीलितैः ।
प्रणेमुर्धरणीपाला स्तुरङ्गस्कन्धवर्तिनः ॥ 131 1
 
तमञ्जलीति ॥ तुरङ्गाः स्वाधिष्ठिताः अश्वाः तेषाम्
स्कन्धाः कायाः पृष्ठप्रदेशाः । कायशब्देन कायैकदेश: पृष्ठभागो
लक्ष्यते । " स्कन्धस्स्यान्न पतावंसे संपरायसमूहयो । काये तरुप्रकाण्डे
च भद्रादौ छन्दसो भिदि ' इति मेदिनी । तेषु वर्तन्त इति णिनिः ।
( तथाविधा:) धरणीपालाः सुहृदो राजानः । कर्तारः । आनम्राः प्रणताः
किरीटा: मकुटानि तेषाम् तलानि स्वरूपाणि मकुटानीत्यर्थः । ' अथ
स्स्वरूपयोरस्त्री तलम्' इत्यमरः । तेषु कीलितैः बद्धैः संघटितैः
दृढं स्थापितैरित्यर्थः । 'बद्धे कीलितसंयतौ' इत्यमरः । ( तादृशः )
अञ्जलिभि: हस्तसंपुटैः ।
 
संपुढे कुडवेऽपि च' इति
 
करणभूतैः । 'अञ्जलिस्तु पुमान् हस्त
मेदिनी । तम् कम्पभूपम् प्रणेमुः अभ्यवाद
यन् । प्रपूर्वाण्णमतेलिट् । एत्वाभ्यासलोपौ । सैन्यधिपतयस्सामन्त
राजाश्र्व भक्त्यतिशयेन तुरङ्गानारूढा अपि यथोचितं तं सभाजया
मासुरिति तद्वैभवमत्र प्रस्तूयते ॥
 
आलोकशब्दमुखरै रस्या पादचारिभिः ।
चोलकेरलपाण्डचाद्यै वेत्रित्वं प्रत्यपद्य त ॥32॥
 
आलोकेति ॥ अस्य राज्ञः । अग्रे पुरस्तात् । पादचारिभिः पदिकैः ।
पादाभ्यां चरतीति णिनि: । आलोकस्य शब्द: आलोकशब्द: आलोकार्थ
शब्द: यशशब्दं वाचयति तस्य आलोकार्थम् दर्शनार्थम् राजानं प्रति प्रयुज्य
मानश्शब्द: जयशब्द इत्यर्थः । आलोको जयशब्दस्स्यात् इति
' '
विश्व: । तादर्थ्ये षष्ठी । तेन मुखराः वाचाला: अधिकं भाषिणः
अविरतं वाचयन्त इत्यर्थः । 'रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् ' इति
मुत्र शब्दात् मुखमस्ति सर्वस्मिन् वक्तव्ये ' इति रः । अत्र मुखर:
 
(