This page has not been fully proofread.

मधुराविजये
 
देहधरत्वमिति यावत् । तथा च रघु: - "मृग़रजयं जरसोपदिष्ट
मदेहबन्धाय पुनर्वबन्ध " इति । अत्र - " अदेहबन्धाय ( पुनः) देहसंबन्ध
निवृत्तये " इति मल्लिनाधः । सोऽस्यास्तीत्यर्शआद्यच् । देह्बन्धम्
देहधारिणम् मूर्तिमन्तमित्यर्थः । अत्र - मातृकापाठोऽयमनर्थक इति धिया
" देहबद्धमिवेन्द्रस्य चिरकालाजितं यशः" इत्यादि दृष्ट्वात्रापि 'देहबद्ध'
मिति पूर्वमुद्रापकास्समस्कुर्वन् । एतत्पाठेऽपि देहबद्धम् बद्धदेहम्
-
देहधारिणमित्यर्थस्समानः । 'जातिकालसुखादिभ्यः' इति क्तान्तस्य पर
निपातः । सुसंगते मातृकापाठे परिष्कारक्लेशस्तेषां शोचनीय' । 'मदस्य
रोषस्य च देहवन्धं संभेदमाशङ्कन वीरवर्गः ' इति नवमसर्गे पुनः
प्रायुङ्क्त कवयित्री । अतोऽस्माभिर्गृहीत एव पाठ: कवयित्र्या हृदय
स्पृगिति निश्चप्रचः । तादृशम् उत्साहम् उत्साहशक्तिमिव स्थितम् ।
उत्साहशक्तिश्च कार्यसिद्धेः प्रधानं साधनम् । यथाह कामन्दकः - " श्रियं
हि सततोत्साहि दुर्बलोऽपि समश्नुते
पूर्ववर्णितम् हयम् । आरुह्य अधिष्ठाय तस्योपरि स्थित्वेत्यर्थः ।
( तादृशम् )
 
}}
 
इति ।
 
तम्
 
सर्वाम् पृथिवीम् चतुस्समुद्रमुद्रिताम् अशेषां भूमिमित्यर्थः । आत्मनः
स्वस्थ । हस्ते वर्तत इति हस्तवर्तिनीम् स्ववशं गताम् स्वविजिता
मिति यावत् । णिनिः । ऋन्नेभ्य' इति ङीप् । अमंस्त अमन्यत
ज्ञातवानित्यर्थः । - असाधारणं
वाहनोत्साहं
स्वविजय संसूचकं
 
(
 
दृष्ट्वा स्वयमपि शत्रुविजये महोत्साहह्वानभूदिति भावः । उत्साह
समृद्धिरत्र वर्णितेति समृद्धिमद्वस्तुवर्णनादुदात्तोऽलङ्कारः । देहबन्धमिवे
त्युत्प्रेक्षा च तदङ्गमभूदित्येतयोस्संकरः ॥
 
राज्ञः प्रस्थानमभिधत्ते
 
230
 
-
 
स तत्र तत्र संभूत सैन्यैस्संख्यातिलङ्गिभिः ।
अन्तर्हिततदाभोग मत्यगाद्गृहगोपुरम् ॥
 
स इति ॥ सः कुमारः । तत्र तत्र तेषु तेषु प्रदेशेषु ।
 
11
 
30