This page has not been fully proofread.

122
 
228
 
मधुराविजये
 
चलत्कन्धरं वाजिनमूहते-
मुहुस्स्वजवसंरोध नमितोन्नमिताननः ।
नमस्कुर्वन्त्रिव पुरो वर्तिनीं विजयश्रियम् ॥ 112711
 
-
 
मुहुरिति ॥ मुहुः पुनःपुनः । स्वस्य आत्मनः जवः वेगः
स्वीयवेग इत्यर्थः । तस्य संरोध: उपरोध: प्रतिबन्ध: मुखखलीन
( रज्जु) कृत इत्यर्थः । तेन । नमितम् अधोनमितम् आनमितमित्यर्थः ।
उन्नमितम् उद्गमितम् उद्गतमिति यावत् । तादृशम् आननम्
मुखम् यस्य तथोक्तः । तथाविधस्सन् । पुरः अग्रे वर्तत इति पुरो
वर्तिनी स्वाभिमुखं स्थितेत्यर्थः । ताम् विजयश्रियम् जयलक्ष्मीम् ।
स्वाभिलषितदेवतामिति गम्यते । ताम् । अभिवादयन्निवेत्युत्प्रेक्षा
'साक्षात्प्रभृतीनि' चेति विभाषा गतिसंज्ञा । 'नमस्पुरसोर्गत्यो' रिति
विसर्गस्य सः । ' उपपदविभक्तेः कारकविभक्तिर्बलीयसी' ति द्वितीया ।
अत्र नयनयोस्समीपेऽश्वस्य विजयलक्ष्मीस्साक्षात्कुरुते । तां प्रणमन्निवाय
मश्वः क्षणक्षणं मुखमुन्नमत्यवनमतीति तुरङ्गस्य नैसर्गिकयोर्मुखोन्नमना
वनमनयोविजयलक्ष्मीनमस्करणार्थत्वसंभावनेति क्रियोत्प्रेक्षेयम् । अनया
' या लतान्विष्यत' इति न्यायेन हठादभिलषितार्थसिद्धिरूपं वस्तु, तेन
च (भावि) विजयस्य शीघ्रमेवावश्यंभावित्वं ध्वन्यत इत्यलङ्कारेण
वस्तुध्वनिरपि । इन्द्रायुधवर्णनावसरे भट्टबाणः- "अतिदूरमवनमता प्रति
क्षणमतिदूरमुन्नमता च जवनिरोधस्फीतरोषघुरघुरायमाणघोरघोणेन
शिरोभागेन निजजवदर्पवशादुल्लङ्घनार्थमाकलयन्तमिव त्रिभुवनम्"
 
इति व्याचष्टे ॥
 
स्वखुरै भूमि खनन्तमश्वं प्रकथयति
 
खुरधूतधराधूलि स्थलीकृतनभस्थलः ।
वारयन्निव रथ्यानां रवेः खेचरतामदम् ॥ ॥
 
-
 
11 28 11