मधुराविजयम् /362
This page has not been fully proofread.
चतुर्थ सर्गः
लोलवालाग्रलग्नेन सेव्यमानो नभस्वता ।
रंहोरहस्यशिक्षार्थं शिष्यतामिव जामुषा ।
227
112611
लोलेति ॥ रह: वेगः तस्मिन् रहस्यानि तद्विषयकमर्माणि
तेषाम् शिक्षा गुरुमुखतो ग्रहणम् तस्यै तथोक्तम् । गुरोरेतस्मात् वेग
विद्यामर्माणि ग्रहीतुकाम इत्यर्थ: । शिष्यताम् एतस्य अन्तेवासित्वम् ।
जग्मुषा उपेयुषा गतवतेवेति संभावना । अन्यथा कथंवा निर्हेतुकं
चाञ्चल्यं पुच्छस्येति भावः । गमेलिट: कुवसुः । द्वित्वम् । संप्रसार
णम् । छान्दसा अपि क्वचिद्भाषायां भवन्तीति 'मासश्छन्दसी ' ति
वार्तिके छन्दोग्रहणसामर्थ्यादवगम्यते । अतएवैतादृशानां साधुत्वमित्य
वधेयम् । लोलम् चञ्चलम् बालस्य अग्रम् उपरिभागः । पुरस्तात् अभि
मुखमिति च गम्यते । विद्योपादाने गुरोरभिमुख स्थितेश्शिष्यस्य लोक
दृष्टत्वादयमपि तथेति भावः । 'अग्रं पुरस्तादुपरि परिमाणे पलस्य
च। आलम्बने समूहे च प्रान्ते च स्यान्नपुंसकम् । अधिके च
प्रधाने च प्रथमे चाभिधेयवत्' इति मेदिनी । तस्मिन् लग्नेन सकेन
सावधानं स्थितेनेत्यर्थः । 'लग्नं राश्युदये क्लीबं सक्तलज्जितयो
स्त्रिषु' इति सुधा । तादृशेन । नभः आकाशः अस्यास्तीति नभ
स्स्वान् वायुः । नभस्स्वामित्वं चास्य वायुपुराणे गदितम् । "शब्दा
काशबलानां च वायुरीशस्तथा कृतः" इति । तेन सेव्यमानः परि
चर्यमाण: । "गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया
विद्या " इति विद्यार्जनाय समुपदिष्टेषु साधनेषु गुरुशुश्रूषाया अप्ये
कत्वात् । प्रथमोपात्तत्वेन तस्यास्तत्साधनेषु प्रधानत्वाच्चेति भावः ।
अत्र तुरङ्गमवालाग्रचाञ्चल्यं स्वतस्सिद्धम् । तत्र च वायव्यरहोविद्या
ग्रहणार्थत्वं संभाव्यत इति क्रियोत्प्रेक्षालङ्कारः । श्रीहर्षस्तु "अची
करच्चारुह्येन या भ्रमीः निजातपत्रस्य तलस्थले नभः । मरुत्किम
द्यापि न तासु शिक्षते वितत्य वात्यामयचक्रचङ्क्रमान्
इति
नलावं प्रशशंस ॥
"