This page has not been fully proofread.

चतुर्थसर्गः
 
225
 
भावः । बिम्ब: प्रतिबिम्बसमाश्रयस्तत्स्वरूपेणैव लब्धसत्ताक इति तं
सर्वदा समाच्छाद्यैव बिम्बस्तिष्ठतीत्यत एवं संभाव्यते । प्रतिबिम्बे
जम्भारितुरङ्गभ्रान्तिश्च तदाक्रमणसंभावनासमुज्जीवक इति भ्रन्तिमदङ्ग
भूतात्र गम्योत्प्रेक्षा अधरित इति शब्दगतश्लेषभित्त्या न्यूनीकर
 
णत्वाधःपतित्वरूपयोरर्थयोरभेदाध्यवसायेनैकवाचकानुप्रवेश इत्युत्थापि
तातिशयोक्तिरपि भ्रान्तिमत्समुज्जीविकेति परस्परमेतेषामलङ्काराणां
सङ्करः ॥
 
उत्साहमश्वराजे कीर्तयति भावि विजयसंसूचकतया
 
लवणोदन्वदेकान्त लङ्घनामात्रर्गवितम् ।
 
हसन्निव हनूमन्तं हेषितैः फेनपाण्डरैः ॥
 
-
 
24
 
11
 
वर्णैः ।
 
हेषितः
 
"
 
लवणेति ॥ फेन: अब्धिकफः तत्सदृशत्वान्मुखफेनोऽपि फेनः ।
' हिण्डीरोऽब्धिकफ: फ़ेन:' इत्यमरः । तेन पाण्डरै: धवलै: शुक्ल
शुक्लशुभ्र शुचिश्वेतविशदश्येतपाण्डरा : ' इत्यमरः ।
निस्स्वनैः स्वध्वनिभिः । हेषू शब्दे - नपुंसके भावे क्तः । तैः करण
भूतैः । लवण इति उदन्वान् लवणोदन्वान् लवणसमुद्रः ।
नुदधौ च' इति साधुः । तस्य एकान्तः एकदेश: तस्य लङ्घना
मात्रम् प्लुतमात्रम् उपर्युपरिगमनम् नत्वास्कन्दितादिभिः गमनविशेषैः ।
तेन गवि
 
• उदन्वा
 
-4
 
" प्लुतं तु लङ्घनं पक्षिमृगगत्यनुहारकम्' इति हैमः ।
 
तम् संजाताहङ्कारम् । 'गर्वोऽभिमानोऽहङ्कारः' इत्यमरः । तारकादि
त्वादितच् ।
प्रशस्ता: वज्रसंहननेनापि न व्यथिताः हनवः कपोला
'शरादीनां' चेति मतौ
धोभागा: अस्येति हनूमान् आञ्जनेयः ।
दीर्घः । तम् । हसन्तम् प्रहसन्तम् परिहसन्तमिव स्थितमित्युत्प्रेक्षा ।
अस्थाने गर्वोऽयं मनस्विनामसह्य इति हेतोरिति भावः । पञ्चधाऽपि
गमनैः सप्तसमुद्रान् परिभ्रमतामस्माकं सतां लवणाब्धावेकदेशमपि
केवलं लङ्घयतोऽस्य कोऽयं गर्व इति तत्परिहासे हेतुः । परिहासकृच्च