This page has not been fully proofread.

चतुर्थ सर्गः
 
विग्रहः । स इव । समानस्येति
 
योगविभागात्समानस्य
 
सभावः ।
 
• समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु इति सूत्रे 'समान' स्येति योग
 
}
 
(
 
विभाग: इष्टप्रसिद्धयर्थः क्रियते । तेन सपक्षः साधर्म्यम् सजातीय:
इत्येवमादयस्सिद्धा भवन्ति । इति काशिका । गन्धं वहति प्रापयतीति
गन्धवाहः वायुः । कर्मण्यण् । तस्य सखा मित्त्रम् । स इव । रंहः
जवः वेगः । 'रंहस्तरसी तु रयस्स्यदो जवः ' इत्यमरः । तस्य
संघात: समूह: राशि: राशीकृतो वेगः मूर्तिमान् वेग इति यावत् ।
स इव । स्थित इत्यर्थः । एकस्यैवोपमेयस्य सपक्ष इवेत्यादिना बहूप
मानत्वमत्रेति मालोपमा । रंहसस्संघात इवेत्यत्र तु मूर्तिमतो वेगस्य
तादात्म्यसंभावनैकगोचरत्वेन नेयमुपमा किंतु गुणोत्प्रेक्षा । संभावना
विषये मूर्तिमति वेगे गरुडादिवेगाना मेकदेशत्वेन विषयस्याधिक्यं विष
यिणो गम्यत इति व्यतिरेकालंकारध्वनिरुत्प्रेक्षयेत्यल ङ्कारेणालङ्कार
ध्वनिरपि ॥
 

 
स्वखुरैर्भूमि मर्दयन्तमश्वमुत्प्रेक्षते
 
-
 
228
 
अपर्याप्तामतिक्रान्त चेतोवृत्तेस्स्वरंहसः ।
विस्तारयन्निव महीं चटुलैः खुरघट्टनैः ॥
 
22
 
अपर्याप्तेति ॥ चेतसः वृत्तिः चेतोवृत्तिः मनोव्यापार वृत्त्या
कारपरिणामि चित्तमित्यर्थः । अतिक्रान्ता अतिचरिता उल्लङ्घता
अधः कृतेति यावत् । तादृशी चित्तवृत्तिः येन तथाविधस्य तृणीकृत
मनोवेगस्येत्यर्थः । तस्य स्वरंहसः आत्मनो वेगस्य । अपर्याप्ताम् अनलं
भूताम् यथेच्छं विहर्तुमपरिपूर्णावकाशामित्यर्थः । तादृशीम् महीम्
भूमिम् । कर्म । चटुलै: चञ्चलैः पुनः पुनः प्रवृत्तैः । खुरघट्टनैः शफ
चालनैः शफसंघर्षणैरिति वा । तैः करणभूतैः । विस्तारयन् विस्तार
वतीं कुर्वन् भूमेर्वैशाल्यं संपादयन्निवेत्युत्प्रेक्षा । मतबन्ताद्विस्तार