This page has not been fully proofread.

222
 
मधुराविज़ये
 
राजागमनमाचष्टे
 
अथ निर्गत्य भवना दवैक्ष्यत महीक्षिता ।
धारितस्तोरणाभ्यर्णे तुङ्गस्तुरगपुङ्गवः ॥ 11 20
 
-
 

 

 
अथेति ॥ अथ अनन्तरम् मुहूर्तसमये संप्राप्ते इत्यर्थः ।
मह्याम् भूम्याम् क्षियति निवसतीति क्विप् । तुगागमः । तेन ।
कर्त्रा। भवनात् निर्गत्य । ल्यब्लोपे पञ्चमी । स्वभवनं विहाय
बहिरागत्येत्यर्थः । तोरणस्य द्वारबाह्यभागस्य । 'तोरणोऽस्त्री बहिर्द्वारम् '
इत्यमरः । अभ्यर्णः समीपप्रदेशः । उपकण्ठान्तिकाभ्यर्णाभ्यग्रा
अप्यभितोऽव्ययम्' इत्यमरः । तस्मिन् । धारित: अवस्थापित : ( राज्ञः)
आरोहणार्थं सज्जीकृत इत्यर्थ: । धृङ् अवस्थाने णिजन्तत्कर्मणि क्तः ।
तुङ्गः उन्नतः (पुङ्गव इव तुरङ्गः ) तुरङ्गपुङ्गवः अश्वराज: राजारोह
णोचितः उत्तमाश्वः औपवाह्य इति यावत् ।
स्युरुत्तरपदे व्याघ्र
पुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः '
इत्यमरः । सः कर्म । अवैक्ष्यत अदशि । सादरमिति भावः । अव
 

 
पूर्वादीक्षतेः कर्मणि लङ् । शुभसमये प्रस्थाय राजा समधिरोढुमश्वराजं
प्रायततेति परमार्थः ॥
 
इत आरभ्य राजाश्वमष्टभिरश्लोकैर्वर्णयति
 
सपक्ष इति ॥ तार्क्ष्य: गरुडः ।
 
"
 
सपक्ष इव तार्क्ष्यस्य सजातिरिव चेतसः ।
 
सखेव गन्धवाहस्य संघात इव रंहसः ॥ ॥ 21 ।
 
-
 
"
 
,
 
गरुत्मान् गरुडस्तार्क्ष्य: '
इत्यमरः । तस्य सपक्ष: एकपक्षाश्रयः आप्त इत्यर्थः ।
अभिन्नः पक्षः वर्गः यस्येति विग्रहः ।
समानः
सजातिः एकवंशयः दायादः बन्धुरित्यर्थः । समाना जातिः यस्येति
स इव । चेतसः मनसः