This page has not been fully proofread.

42)
 
चतुर्थसर्गः
 
एव तदाप्तेभ्यः पित्रादिभ्यः कथयित्वा महान्तमानन्दं घटयति तद्व
दिति समासोक्तिस्कृतिः । रूपकं तु स्पष्टमेव ॥
 
विजयसाधिकां तेजोऽभिवृद्धि राज्ञि प्रस्तौति -
 
अथर्ववेदिनो विप्रा स्तं विशेषैर्जयाशिषाम् ।
अवर्धयन्मन्त्रपूत र्हविभिरिव पावकम् ॥
 
"
 
अथर्वेति ॥ अथर्ववे दिन: अथर्वा तदाख्यो वेदः तं विद
 
}
 
न्तीति णिनिः । तादृशः विप्राः ब्राह्मणाः पुरोहिता इत्यर्थः । अथर्व
'
वेदिन इत्यनेन स्वकृत्ये तेषां कौशलं बोध्यते । तेन तदा
शिषां सफलतावगम्यते । यथाह कामन्दकः
त्रय्यां च
दण्डनीत्यां च कुशलस्स्यात्पुरोहितः । अथर्वविहितं कुर्यान्नित्यं शान्तिक
पौष्टिकम् " इति । ते कर्तारः । जयाशिष: विज़यार्था: हिताशंसाः
' स्त्री त्वाशीहिताशं साहिदंष्ट्रयो: ' इत्यमरः । तासाम् विशेषैः मन्त्रभेदैः ।
शात्रवविजयाय समुद्दिष्टै राथर्वणमन्त्रसम्पुटीविशेषैरिति यावत् । तैः
करणभूतैः । तम् राजानम् । मन्त्रैः वेदविशेषैः । पूतैः पवित्रैः
संस्कृतैरित्यर्थः । • वेदभेदे गुह्यवादे मन्त्रः इति ।
 
,
 
,
 
7
 
मेध्यं च इति चामरः ।
 
66
 

 
19
 
-
 
"
 
पूतं पवित्रं
तथाविधैः ह॒विभिः देवतोद्दिष्टवस्तुभिः
घृतादिभिः । ' हविस्सपिषि होतव्ये' इति विश्वः । पावकम् अग्नि
मिव अवर्धयन् एधयामासुः । ब्राह्मणाशी: प्रभावेन वर्धिततेजाश्शात्रवाणा
मतीव भयंकरो बभूव स इति भावः । स्वयं तेजस्वी कुमारोऽयं
विप्राशी: परिग्रहेण भृशं तेजस्वी सन् हविर्बंधितो जातवेदा इव नितरां
जज्वालेति तात्पर्यार्थः । यात्रावसरे विप्राशीः परिग्रहादि राज्ञा कर्तव्यमिति
स्मर्यते- ततः कृत्वा महापूजामुद्दिश्य कुलदेवताः । धेनुं भूमि
हिरण्यं च विप्रेभ्यो विधिनार्पयेत् । तदाशिषस्समादाय नीराजितहय
द्विप इत्यादिना । अलङ्कारस्तूपमा ॥
 
221