This page has not been fully proofread.

218
 
मधुराविजये
 
उत्तुङ्ग र्ध्वजसङ्घातै निरुद्धे गगनाध्वनि ।
निनाय कृच्छ्रात्पातङ्ग शताङ्ग गरुडाग्रजः ॥ ॥5॥
 
उत्तुङ्ग रिति ॥ गगनम् आकाशः तदेव अध्वा गन्तव्यो मार्ग:
तस्मिन् । उत्तुङ्गैः उन्नतैः प्रांशुभिः । ध्वजानाम् केतनानाम् सङ्घातैः
समूहैः । पताकाः वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ' इत्यमरः ।
निरुद्धे निगृहीते आक्रान्ते सर्वत्र तैर्व्याप्तत्वेन गन्तुं निरवकाशतया
कृते सतीत्यर्थः । अग्रे जातः अग्रजः पूर्वजः भ्राता । 'पूर्वजस्त्वग्रियो
ग्रजः' इत्यमरः । गरुडस्य गरुत्मतः अग्रज तथोक्तः । विनतायां
कश्यपाद् गरुत्मतः पूर्वं जातोऽनूरुनामा सूर्यसारथिरित्यर्थः । (सः) ।
पतङ्गः सूर्य: तस्येदम् पातङ्गम् सूर्यस्वामिकमित्यर्थः । 'तस्येद'
मित्यण् । पतङ्गशलभे शालिप्रभेदे पक्षिसूर्ययोः । क्लीबं सूते
इति मेदिनी । शताङ्गम् रथम् सूर्यरथमित्यर्थः । यद्यपि
चऋिणि युद्धार्थे ' शताङ्गस्स्यन्दनो रथः' इत्यमरसिंहः ।
तथापि
विशेषवाचिना सामान्यवाचित्वं चूतवृक्षादाविव न विरुद्धम् । (तम् )
कृच्छ्रात् दुःखात् महान्तं खेदमनुभूयेत्यर्थः । त्यब्लोपे पञ्चमी । रथ
मार्गस्य ध्वजसंकीर्णतया गन्तुमशक्यत्वात् स्थातुं दुश्शकत्वाच्चेति
भावः । निनाय अगमयत् प्रस्थापयामासेत्यर्थः । गत्यर्था ये णिज
तास्ते धातवो नीञ्समार्थका: " इति भट्टमल्लः । अत्र चौन्नत्येन ध्वजा
नामाकाशाक्रमणम्, तेन च सूर्यरथस्य निरोधः, तेन यथाकथमप्य
रुणेन रथचोदनं चैतत्सर्वमपि कविप्रौढोक्तिसिद्धमेव वस्तुतो न तथे
त्यतिशयोक्तिभेदोऽलङ्कारः ॥
 
6
 
"
 
विजयसूचकं सेनासमुत्साहं कथयति -
 
पोषितो यहेषाभि वृहितो गजबृ हितैः ।
वधितस्तूर्यनिध्वानैः कोऽपि कोलाहलोऽभवत् ॥
 
याने
 
"
 
16