This page has not been fully proofread.

चतुर्थ सर्गः
 
"
 
दासप्रयोग इव ' नृपमौलिमणे: छाये' ति पूर्वपदस्य जात्येकवचनान्ततया
यथाकथमपि चिन्तनीया । ताः मञ्जरीपुञ्जा इवेत्युपमितसमासः ।
मञ्जरीशब्देन पुष्पगुच्छा अभिधीयन्ते । तत्साहित्यात् पल्लवा अपि
लक्षणया । 'वल्लरी मञ्जरी स्त्रियौ ' इत्यमरः । तेषाम् पुञ्जा:
राशयः उच्छ्रितबृन्दाः ते तथोक्ता' । ' पुञ्जराशी तूत्कर: कूटमस्त्रिया
मित्यमरः । त इवेत्यर्थः । पद्मरागाणामत्रत्याना मूर्ध्व रश्मित्वमनेन व्यज्यते ।
तेन चोत्तमपद्मरागत्वमेतेषां ज्ञायते । पद्मरागमणिभेदा एवमुक्ता
रत्नशास्त्रे – "ऊर्ध्व रश्मिरधोरश्मिः पार्श्वरश्मिश्च यः क्रमात् । पद्म
-
रागस्स विज्ञेय उत्तराधममध्यमः ॥ " इति । तैः । रञ्जिताः शोणिताः
रक्तवर्णतां प्रापिता: पोषिताश्च सन्तः । रञ्ज रागे ण्यन्तात्कः ।
जातु कदाचिदपि । उरसा निर्मिता औरसी । स्वस्मात् स्वपाणि
गृहीत्यां जाता पुत्रीत्यर्थः । ' स्वजाते त्वौरसौरस्यौ ' इत्यमरः ।
औपचारिकस्त्वत्र सूर्यकान्तौ 'औरसी' शब्दप्रयोगः । निसर्गसिद्धेत्यर्थः ।
उरसोऽण् च ' इत्यण् । ताम् । रक्तिम् रागम् लोहितवर्णम् ।
रञ्जतेः करणे क्तिन् । न अत्याक्षुः नैव अत्यजन् । त्यजतेर्लुङ् । वर्णा
न्तरपरिग्रहस्तेषां कथमप्युपाध्यादिना नासीदिति भावः । पल्लवा इव
नैसर्गिकरक्तवर्णा रविकिरणा: राजमकुटख चितपद्मरागमणिमरीचिभि
रूर्ध्व प्रसारिभिरतीव रञ्जिता मध्यंदिनादिष्वपि रक्तवर्णा एवं समभवन्निति
निर्गलितोऽर्थः । एवंविधासम्बन्धेऽपि तत्सम्बन्धोक्ते रतिशयोक्तिरलङ्कारः ।
उपमा च तत्परिपोषकतया तदङ्गमिति संकरः । ज्योतिश्शास्त्रे
ग्रहवर्णाश्चैवमुक्ताः भास्कराङ्गारकौ रक्तौ श्वेतौ शुक्रनिशाकरौ ।
गुरुसोमात्मजौ पीतौ कृष्णवर्णरशनिस्तथा । राहुकेतू धूम्रवर्णा गह
वर्णाः प्रकीर्तिताः इति । पल्लवसादृश्यं च सूर्यकिरणानां कवि
लोके सुप्रसिद्धम् - "कल्याणं वः क्रियासुः किसलय रुचयस्ते
-
 
करा
 
भास्करस्य " इत्यादिना ॥
 
4
 
1
 
66
 
राज्ञामसाधारणचिह्नानि ध्वजानि प्रब्रूते
 
217
 
-