This page has not been fully proofread.

मधुराविजये
 
इति भाषते । 'संभ्रमोइत्यादरे भीतावावेगे' इति नानार्थंरत्नमाला ।
तस्मिन् विजृम्भमाणे अतिवेलं प्रवृत्ते सति । नृपाणाम् राज्ञाम् ।
चामराणाम् वालव्यजनानाम् आलीभिः श्रेणीभिः । कर्त्रीभिः । श्रेणी
भूतैः वालव्यजनै रित्यर्थः । 'चामरा चामरं वालव्यजनं रोमगुच्छकम्'
इति रभसः । आङ् पूर्वादलतेरिन् । 'कृदिकारा' दिति ङीष् । मरा
लीभिः हंसैः तद्रूपैः । स्त्रीलिङ्गनिर्देशोऽत्र शब्दालङ्कारानुरोधेन ।
अजायत अभूयत । ' भवत्यर्थे भवत्यस्ति जायते विद्यते तथा' इति
क्रियानिघण्टुः । जनी प्रादुर्भावे - भावे लुङ् । 'सार्वधातुके य' गिति
यक् ।
ज्ञाजनो' रिति जादेश: । सेनायां युद्धसन्नद्धा राजानश्वाम
राभ्यामुभयतो वीज्यमानास्सैन्ये विराजन्ते । वीज्यमानाचामराः क्रमतो
बद्धश्रेणय स्थिता ऊर्ध्वतोऽधस्ताच्च प्रचाल्यमानारश्रेणीभूताश्शरदि भुव
मवतरन्तो हंसा इव भ्राजन्त इति तात्पर्यार्थिः । अत्र चामराः
हंसत्वेन प्रस्थानं च शारदारम्भत्वेन रूप्यत इति रूपकमलङ्कारः ॥
 
"
 
मणिकिरीटधारिणो राज्ञः कवयते
 
216
 
नृपमौलिमणिच्छाया मञ्जरीपुञ्जरञ्जिताः ।
अत्याक्षुरौरसों रक्ति न जातु रविरश्मयः ॥
 
नृपमौलीति ॥ रवे: सूर्यस्य रश्मयः किरणा: ( कर्तृभूता: )
तथोक्ताः । ते । नृपाणाम् राज्ञाम् मौलयः किरीटानि ।
मौलिरक्लीबे चूडासंयत केशयोः' इति
'किरीटे
 
रभसः । तेषाम् मणयः
 
(
 
सामान्यवर्णने
 
रक्तत्वं
 
रत्नानि तत्र खचिता: पद्मरागा इत्यर्थः ।
रत्न बन्धू कबिम्बाम्भोज विवस्वताम् ' इति
 
देवेशः । तेषाम् छायाः
कान्तयः । 'छाया सूर्यप्रिया कान्ति' रित्यमरः । नृपमौलिमणिच्छाय' मिति
 
इति नपुंसकत्वस्य
 
इति कालि
 
ह्रस्वान्त एव पाठ्यः । 'छाया बाहुल्ये '
 
"
 
दुर्वारत्वात् । स्थितस्य गतिस्तु ' इक्षुच्छायानिषादिन्य
 
॥14॥
 
"
 
....